________________
RAMATKARITAMITAMAAREE
A
SAS
युज्यत एतत् , श्रवणादेः प्रतिबन्धकनिवर्तकत्वात् , प्रतिबन्धकाभावस्य च तुच्छतया हेतुत्वादेव गेहेनर्दिभिः परेरेतदोपपरिहारादिति स्वगृहतत्त्वमेव न प्रेक्षितं क्षतक्षामकुक्षिना तपखिना, ततः सम्यगुत्पेक्षितं शाक्यसिंहविनेयेन यत्'प्रबलदोषमाहात्म्यात् 'खरविषाणम्' इत्यादिवाक्यादलीकस्याखण्डस्य खरविषाणस्येव वेदान्तवाक्यात् परेषां कुवासनादोषमाहात्म्यादलीकस्याखण्डस्य ब्रह्मणो बोधः' इति । एवं च सर्वस्य स्वरूपसत्तादिधर्मसंकीर्णस्य, पररूपासंकीर्णस्यैव चोपलम्भाद् व्यवहारस्य च प्रतियोगिप्रतिपत्तौ तथैवोदयात् , सदसदात्पकमेव जगत् । तदाहुद्धाः
"सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्वं स्यात स्वरूपस्याप्यसंभवः ॥१॥" न तु सदायद्वैतमेवेति व्यवस्थितम् ॥ १० ॥
चार्वाकी यमतावकेशिषु फलं नैवास्ति, बौद्धोक्तयः कर्कन्धपमितास्तु कण्टकशतैरत्यन्तदुःखप्रदाः । उन्मादं दधते रसैः पुनरमी वेदान्ततालद्रुमाः गीर्वाणद्रुम एव तेन सुधिया जैनागमः सेव्यताम् ॥ १॥ न काकैश्चार्वाकैः सुगततनयैर्नापि शशकैकैर्नाद्वैतज्ञैरपि च महिमा यस्य विदितः। मरालाः सेवन्ते तमिह समयं जैनयतयः सरोज स्याद्वादप्रकरमकरन्दं कृतधियः॥२॥ कचिद् भेदच्छेदः कचिदपि हताऽभेदरचना कचिद् नात्मख्यातिः क्वचिदपि कृपास्फातिविरहः । कलङ्कानां शङ्का न परसमये कुत्र तदहो ! श्रिता यत् स्याद्वादं सुकृतपरिणामः स विपुलः ॥३॥
Jain Education
anal
For Private Personal Use Only
www.jainelibrary.org