________________
चस्यान्याय्यत्वात् , संन्यासायधिकारवत एव श्रवणस्य नियम्यत्वाच्च न नियमविधेरन्याय्यत्वमिति चेत् । न, तथाप्यात्मदर्शनार्थं तद्विधिसिद्धर्न तजन्यदुरितनिवृत्तिसाध्यो वाक्यार्थबोधः। वाक्यार्थबोधोऽपि प्रकृतो विषयस्यापरोक्षत्वादात्मदर्शनरूपः स्वीक्रियत इति चेत् । प्रक्रियामात्रमेतत् । न हि विषयपरोक्षत्वा-उपरोक्षत्वनिबन्धनं प्रतिभासस्य परोक्षत्व. मपरोक्षत्वं वा, एकत्र विषय उभयप्रतिभासानुपपत्तिप्रसङ्गात , विषय स्वरूपापरावृत्तेः । अथ वृत्तिधर्म एव पराक्षत्वमपरोक्षत्वं वा, तद्विषयतया च विषयपरोक्षत्वा-उपरोक्षत्वव्यवहार इति चेत् । न, सर्वज्ञानानां स्वांशे प्रत्यक्षत्वोपगमविरोधात् । अथ वृत्तः स्वाकारवृत्तिमन्तरेण भासमानत्वात् शुद्धसाक्ष्यपरोक्षत्वम् , घट-बहून्यादिविषयांशे तु ज्ञाततयाऽज्ञाततया वा साक्ष्यपरोक्षत्वं नैयायिकानां मानसप्रत्यक्षत्वतुल्यम् , स्वरूपेणापि प्रमाणतोऽपरोक्षत्वं च घटादेरेव, विषयचैतन्य-प्रमातचैतन्ययोरभेदेन तस्य फलव्याप्यत्वात् , न तु वह्नयादेः, तत्र वृत्तेबहिनिःसरणाभावेनाभेदाभिव्यक्त्यभावात , प्रकृते चैकस्यैव चैतन्यस्य शब्दबोधितस्य प्रमातृत्वेन विषयत्वेन चाभेदात् स्वरूपतोऽप्यपरोक्षत्वमिति चेत् । न, देशविशेषावच्छिन्नपर्वतस्येवाखण्डत्वाविशिष्टस्य चैतन्यस्य तत्वायोगातः अन्यथा 'अहं ज्ञानवान , ज्ञानसामग्रीतः' इत्यत्राप्यनुमितित्वमुच्छिद्यत । किश्च, कर्मणि स्पष्टत्वं यदि ज्ञानधर्मः, तदा सर्वत्र तत्प्रसङ्गः । यदि च कारणज्ञानस्पष्टता तनिमित्तम् , तदाऽनवस्था । न चैकान्त एकस्यांशे परोक्षत्वाऽपरोक्षत्वादिकं कर्तृ-कर्म-क्रियाविभागो वा संभवीति न किञ्चिदेतत ।
अस्माकं त्वनेकान्ताद् नायं दोषः, प्रबलतरज्ञानावरण-वीर्यान्तरायकर्मक्षयोपशमविशेषात् कचिद् विषये विज्ञानस्य १ क. 'क्ष्यत्व'।
For Private Personal Use Only
www.jainelibrary.org
in Educat
i
on