SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। ॥३०९|| सटीकः। स्तबकः। ॥८॥ काठes खण्डार्थप्रतीतिर्लक्षणया कचिद् दृष्टेति । न चास्य महात्मन उत्तरसमाधानपाणिनाऽपि विवेकलोचनमाच्छादयतो दोषदस्योने भयम् । न हि वृत्तिं विना कचन शब्दात् प्रतीतिः प्रादुर्वन्ती दृष्टा । यदि च निर्दोषत्वमहिमा शाब्दसामग्रीमतिपत्यैव शब्दाद् ब्रह्म बोधयेत् तदा शब्दमतिपत्यैवासी स्वातन्त्र्येण तद् बोधयन् कुतो न प्रमाणान्तरतामास्कन्देत् । न च निर्दोषत्वमत्राविद्यानिवृत्तिरूपम् , तस्याः फलत्वात् , तृतीयप्रतिपत्तौ भावाच; तिस्रो हि ब्रह्मणि प्रतिपत्तयः, आया शब्दात् , द्वितीया शब्दात् प्रतिपद्य संतानवती, तृतीया तु निर्विकल्पक साक्षात्काररूपेति; किन्तु श्रवणादिजन्यप्रतिबन्धकादृष्टनिवृत्तिरूपम् । न च श्रवणादिकं वेदान्तवाक्यार्थबोधार्थ विधीयते, येन तत्र सा द्वारं स्यात् , किन्त्वात्मसाक्षात्कारार्थम् : "आत्मा वा रे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इति श्रुतौ 'अग्निहोत्रं जुहोति, यवागुं पचति' इतिवदार्थक्रमस्य बलवत्त्वात् , श्रवण-मनना| दिभिरात्मा द्रष्टव्य इत्यर्थात् । अत्रापि श्रवणं न वेदान्तानामेव, "श्रोतव्यः श्रुतिवाक्येभ्यः" इत्यत्र श्रुतिपदस्य प्रमाणशब्दमात्रपरत्वाद, अन्यथा नियमा-ऽदृष्टकल्पनागौरवात् । न च गौरवेण मुख्यार्थत्यागेऽविद्याप्रयुक्तिभयाद् रूढित्यागः स्यादिति वाच्यम् । विशेष्यतावच्छेदकप्रकारेण विशिष्टवाचकपदेन बोधे लक्षणाऽभावात् । अत एव विनापि लक्षणां श्येनादाविष्टसाधनबोधः । अत एव न प्रमाणमात्रपरत्वम् , 'श्रुतिपदशक्तौ मुख्यविशेष्ये प्रमाणत्वस्य साक्षादप्रकारत्वात् , तन्मात्रेण तद्बोधने लक्षणापत्तेः' इति मिश्रोक्तेः । अत एव श्रवणे वेदान्तयुक्तरीत्या नियमविधिरपि न न्याय्यः । नन्वेवमपि शब्दबोधस्यैव तत्प्रयोजकत्वाय नियमा-ऽदृष्टकल्पनावश्यकत्वाद् विशिष्टवाचकश्रुतिपदजन्योपस्थितिसंको१ क. 'कुतः प्र'। २ 'निर्दोषत्वम्' इति संबध्यते । ३ क. 'व्यो नि'। OOOOOOOOS ॥३०॥ Jain Education tema For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy