SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ बाबा रपारमार्थिकत्वात् तद्विनिर्मुक्तनिर्विशेषसिद्ध्यापत्तिः । न च निर्विशेष शशविषाणवत् सिध्यतीति शून्यतैव स्यात् । अथ नित्यानन्दादिपदार्थानां नाभेदविरोधः, तर्हि तत्-त्वंपदार्थयोरपि मा भूद् विरोधः। विरोधश्चेत् , शशविषाणादिवाक्यतुल्यमेवैतद् वाक्यं स्यात् । यदि चात्र दृढा भक्तिः, तदा जीवेश्वरयोः शक्त्या शुदस्वरूपेणैवाभेद उपपाद्यताम् । न हि 'सोऽयं देवदत्तः' इत्यत्रापि शुद्धाभेदे लक्षणा स्वारसिकी, तत्त्वे-दंताभ्यां पर्यायभेदोपरक्तस्यैवोर्ध्वतासामान्याख्यस्याभेदस्य शक्तितः प्रत्ययात, प्रत्यभिज्ञायास्तत्समानाकाराभिलापस्य च भेदाभेदग्राहितयैव समर्थनात , उक्तवाक्याद् भेदाभेदयोः समारोपव्यवच्छेददर्शनाच । किञ्च, एवमे कतरविशेषणं न प्रयुञ्जीत, 'सोऽस्ति' इत्यादिनाऽप्यभेदस्य प्रतिपादयितुं शक्यत्वात , विशिष्टाभेदप्रत्यायनार्थमुक्तप्रयोगसमर्थनं तु भेदाभेदवादिनः शोभते, न त्वखण्डार्थप्रतीतिवादिन इति न किशिदेतदनन्तदेवोदितम् । एतेन 'गौरवः' इत्यादिकं जातितोऽर्थ प्रत्याययति, 'पचति पठति' इत्यादिकं तु क्रियातः, 'शुक्लः कृष्णः' इत्यादिकं गुणतः, 'धनी गोमान्' इत्यादिकं च संबन्धत इति, ब्रह्म तु जाति-क्रिया-गुण-संवन्धरहितं मुख्यया वृत्त्या न केनापि शब्देन प्रतिपादयितुं शक्यते, परन्तु यथा कथञ्चिल्लक्षणयैत्र 'तत्त्वमसि' इत्यादिवाक्यात् तद्बोधः, तत्रापि तात्पर्यस्य नियामकत्वाद् निर्दो षत्वमहिम्ना वृत्तिं विनैव वा ततस्तद्बोधः' इति मधुसूदनाभिप्रायोऽपि निरस्तः, अस्य खलु तपस्विनो 'यथा कथाश्चित्' इति वदतो लक्षणायां संशय एव | न हि बहुप्रसिद्ध्यनारूढपदसंबन्धरूपा, शक्याथेसंबन्धरूपा वा लक्षणा ब्रह्मणि घटते । न चा १ ख. ग. प. च. 'न श'। २ क. 'संन्यास ए'। 390 Jain Education belona For Private Personal Use Only T www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy