________________
शास्त्रवार्तासमुच्चयः । ॥३०८॥
एव 'ब्रह्मसिद्धावसर्वम्” इति ब्रह्मविशेषणमुक्तमिति चेत् । न व्याघाताद्, सर्वधर्मप्रतियोगितोपरक्ताभावात्मकतया ब्रह्मणः सर्वत्वानपायात्, ब्रह्मस्वरूपवत् सर्वस्य ब्रह्माभिन्नत्वे तु च्छेदापाताच्च । नोच्छिद्यत एव ब्रह्मरूपेण सर्वम्, प्रपञ्चरूपेण चोच्यत इति चेत् । ब्रह्मापि संसाररूपेणोच्छिद्यते नोच्छियते च ब्रह्मरूपेणेति तुल्यम् । नैकमेव निवर्तते न निवर्तते चेति चेत् । तुल्योऽयमुभयत्र संत्रासः कातरस्य सः । अनित्यस्य प्रपञ्चस्य कल्पितब्रह्मतादात्म्येन सह निवृत्तिः, नित्यस्य तु ब्रह्मणो नेयमिति चेत् । न, रूपान्तरपरिणतोपादानरूपनिवृत्तिवादेऽनाद्यविद्यातादात्म्यानिवृत्याऽनिर्मोक्षापातस्य तदवस्थत्वात् । बाधरूपनिवृत्तिवादे च तस्य निर्विषयत्वाभावेन ब्रह्मरूपतदत्यन्ताभावविषयकेन तेन समानसंवित्संवेद्यतयाऽविद्यारूपब्रह्मात्यन्ताभावोsपि विषयीक्रियेत । त्रैकालिकी तादात्म्यपरिणामनिवृत्तिरेव खल्वत्यन्ताभावः । अथास्त्वविद्याया ध्वंस एव, स चानिर्वचनीयः न चानिर्वचनीयस्याज्ञान निवर्त्यत्वनियमः, अविद्याध्वंसातिरिक्ते तत्संकोचादिति चेत् । न, तथापि मुक्तौ तत्सश्वेऽद्वैत संकोचावश्यकत्वात्, तत्कार्यनिवृत्तीनामप्यनन्तानां तदा सच्चे तावतीषूक्त नियमाद्वैत संकोचस्यातिजघन्यत्वाच मुक्तावद्वैतवचनस्य दृग्दृश्यसंयोगोपरतिवचनस्य च कर्मनिर्मुक्तत्वाभिप्रायेणैवोपपादयितुं युक्तत्वादिति दिग् ।
अपच, तस्यादिवाक्ये परोक्षत्व भोक्तृत्वाभ्यामुपस्थितयोरभेदान्वयायोग्यत्वाद् यदि पदद्वयस्य चिम्मात्रे लक्षणा, एतद्वाक्यसामर्थ्यादेव च प्रपञ्चे पारमार्थिकत्वाभावलाभः भोक्तृत्वादेः पारमार्थिकत्वे तत्पदार्थे क्यासिद्धेर्भोक्तृत्वादेः कल्पित भोग्यादेरपि कल्पितत्वादिति मन्यते, तदा "नित्यं विज्ञानमानन्दं ब्रह्म" इत्यत्र नित्यत्व-विज्ञानत्वाऽऽनन्दत्वादिनोपस्थितस्याप्यभेदान्वयायोग्यत्वाद् नित्यादिपदानां निर्विशेषब्रह्मणि लक्षणयैतद्वाक्यसामर्थ्यादेव नित्यत्वादे
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तवकः ।
॥ ८ ॥
||३०८||
www.jainelibrary.org