________________
Jain Education Inter
साक्षित्वादिरूपेण मुक्तौ नष्टमनष्टं च ब्रह्मरूपेण वस्त्वस्तु । तथाच 'औदयिकादिभावनिष्पन्नसंसारितया निवर्तमानं सिद्धत्वेनोपद्यमानं द्रव्यतयानुगतमात्मद्रव्यमेव मुक्ताववतिष्ठतेः कर्म च संसारनिबन्धनोदयादिभावालम्बनतया निवर्तमानं द्रव्यतयाऽनुगतमेव ततः पृथग्भावपर्यायेणोत्पद्यते' इत्यार्हतमतमेवाकामेनाप्यभ्युपगन्तव्यम् । अनष्टायां खल्वविद्यायां मुक्तावप्यद्वैतस्याari व्याघाते किमर्थं संसारदशायामात्मनि साक्षाज्ज्ञान-सुखादिप्रतीतीनामनिर्वचनीय ज्ञानाद्यालम्बनतयाऽन्तः करणधर्माणामेव ज्ञान- सुखादीनां परम्परासंबन्धदोषेण भ्रमत्वं कल्पनीयम् ? । “कामः, संकल्पः, विचिकित्सा, श्रद्धा, धृतिः, अश्रद्धा, अधृतिः, ह्रीः, धीः, भीः, एतत् सर्व मन एव" इति श्रुतेर्भावमनोऽभिप्रायेणैव घटमानत्वात् । 'मनःपदस्य मनः कारण के लक्षणयैतदुपपत्तिः' इत्यन्ये ।
अथाद्वैतश्रुत्यनुरोधादनाशेऽप्यविद्याया वाघितत्वेन तस्या अतात्त्विकत्वादद्वैततवाव्याकोप इति चेत् । न तदा तस्या वाघाविषयत्वेन वाधितत्वायोगात् । ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वं चाविद्यायामिवाविद्यानिष्ठात्यन्ताभावप्रतियोगित्वं ब्रह्मण्यपि तुल्यम्; अन्यथा तु तत्तादात्म्यापरया संसारितापत्तिः । एतेन 'प्राक् पश्चाद् वा घटादेः 'नास्ति' इति प्रतीतेरत्यन्ताभावेनैवोपपतौ प्रागभावे ध्वंसे वा मानाभावः असचं चात्यन्ताभावादेव' इति निरस्तम्, अनुत्पन्नापच्युताया अविद्याया अत्यन्ताभावोपगमे ब्रह्मणोऽपि तत्प्रसङ्गस्य दुनिर्वारत्वात् प्रागभाव-ध्वंसापलाप प्राक् पचादिति प्रयोगस्यैवानुपपत्तेः, प्रतियो गिनः पुनरुत्पत्ति- पुनरुन्मज्जनादिप्रसङ्गाच्च ।
अथ सर्वस्य ब्रह्मात्मकत्वाद् ब्रह्मण: कात्यन्ताभावः १, ब्रह्म तु न सर्वात्मकमिति तदेव सर्वात्यन्ताभावरूपम्, अत
For Private & Personal Use Only
Aww.jainelibrary.org