________________
शास्त्रवार्तासमुच्चयः । ॥३०७॥
तज्जन्यत्वं प्राप्तम् । यदि चातिरिक्तः, तदा तन्निवृत्तिनिवृत्यादिपरम्पराप्रसङ्गो दुनिर्वारः । अथ संप्रज्ञातसमाधिस्थलीयात्माकारमृत्युत्तरं निरोधसमाधिना वृत्तिं विनैवात्मानुभवः, तदा चित्तस्य निरुद्धेदृत्तिकस्वेन दर्शनाहेतुत्वेऽपि स्वतः सिद्धस्यात्मदर्शनस्य दुर्निवारत्वाज्जल- तन्दुलादिपूर्णतापगमेऽपि घटस्य वियत्पूर्णतावत् स एवाज्ञानवाधरूपः, तस्यापि प्रवाहपतित निर्वृतिकचित्तपरिणामरूपस्य सह निरोधसंस्कारैः स्वप्रकृतौ लये स्वरूपप्रतिष्ठः पुरुषो भवतीति चेत् । न तस्य प्रकृतिलयहेत्वभावात्, स्वात्मिकाया अविद्यानिवृत्तेः स्खलयेऽहेतुत्वात्, लयस्यैवानिर्वचनाच्च; तथाहि लयः किं ध्वंसो वा, बाघो वा, कार्यरूपपरित्यागेन कारणरूपेणावस्थानं वा ? । नाद्यः, मिथ्याभूतस्यात्यन्ताभावस्यैवापगमात् । न द्वितीयः, बोधानुपरमेनानिर्मोक्षापातात् । नापि तृतीयः, चित्ताभावात् ।
अथाविद्या पर्यन्तत्वाल्लयस्य न दोषः, लीयते तु सुषुप्तौ, “तन्निगृहीतं न लीयते" इति गौडोक्तं तु निरोधे चित्तवृत्यभावो न लयकृतः, किन्तु निग्रहकृत इत्यभिप्रायेणेति चेत् । अपमतमेतत्, लयस्य कार्यक्रमेण निवृत्तिरूपत्वात्, अत्र तु कारणक्रमेण निवृत्तेरभिधानात् । अथात्र कारणक्रमेण बाधरूपनिवृत्त्युत्तरं कार्यक्रमेण लय इति नापमतम्, स च बाधक्रमेणार्थसिद्ध इति न हेत्वनुपपत्तिरिति चेत् । न, अविद्याध्वंसत्वस्यैव तत्त्वज्ञानजन्यतावच्छेदकस्वौचित्यात्, बाधेनैव ध्वंसापलापे घटादेरपि प्रपञ्चस्य ध्वंसाभावे सूक्ष्मतया स्वरूपेणावस्थानस्य सुवचत्वे मुक्तावप्यनुवृत्तिप्रसङ्गः । कारणरूपमेव सूक्ष्मता, नान्येति चेत् । तर्हि प्रपञ्चकारणमविद्या स्वरूपतो न नष्टा, कार्यात्मना तु नष्टेति नित्य निवृत्यात्मकतया वस्त्वस्तु । एवं ब्रह्मापि
१ क. 'द्ध' । २ ख ग घ च 'स्थित्यभा' ।
Jain Education Itional
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ ८ ॥
॥३०७॥
3. www.jainelibrary.org