________________
मुक्तिरिति वदन् सौगत एव विजयेत ।
किञ्च, निवृत्तानवाप्तत्वभ्रमस्यापि पुनस्तभ्रमोदयादेव प्रवृत्तिरित्यपूयं प्रेक्षावत्ता । अपिच, शमाद्यर्थोऽप्युपदेशो व्यर्थ एव, मुक्तिसाधनतायां तस्याप्रामाण्यात् । अथ तत्वज्ञानसाधनतायां तत्मामाण्यम् , तच्च स्वत एवं फलरूपम् , अत एवं न तद् विधेयमिति चेत् । न, तत्वज्ञानस्य सुख-दुःखहान्यन्यतरत्वाभावेन स्वतःफलरूपत्वानुपपत्तेः । न च दुःखहानिरूपमेव तत्त्वज्ञानमिति स्वतः फलम् , एकस्य भावा-भावोभयरूपत्वविरोधात् । अविरोधे वा भावा-ऽभावकरम्वितोभयवस्त्वापत्तेः । किञ्च, तत्त्वज्ञानेऽपि मुमुक्षयैवेच्छा जायमाना तस्य स्वतःफलत्वं व्याहन्ति । यदि च तत्र स्वरसत एवेच्छा तदा घटादावपि तथैव सा स्यादिति घटादेरपि स्वतःफलत्वापत्तिरिति न किश्चिदेतत् ।
अपिच, एवमभ्रान्तपुरुषकृतिसाध्यत्वरूपं पुरुषार्थत्वमपि मोक्षस्यानुपपन्नमेव । न चाभिलषितत्वमानं तत् , बलबदनिष्टाननुवन्धित्वभ्रमजन्येच्छाविषये विषभक्षणेऽतिव्याप्तः, अभ्रान्तेच्छाविषयत्वं तुन मुक्तावपि, अनवाप्सत्वभ्रमजन्येच्छाविषयत्वादेव । न चाभिलषितत्वमात्रसत्वेऽपि चन्द्रोदये पुरुषार्थत्वं व्यवहियते, लक्ष्याकृतं च तादृशव्यवहारालम्बनमेव तदिति । एतेन 'नानवाप्तत्वभ्रमजन्या मोक्षेच्छा, अवाप्तत्वज्ञानस्येच्छाप्रतिबन्धकस्य दोषेण प्रतिबन्धादेव तदुदयात्' इत्युक्तावपि न क्षतिः, वस्तुतो विवेके सत्यवाप्तत्वज्ञानम् , तस्मिंश्च सति न मुमुक्षा, इति न यावदधिकारसंपत्तिरेव वेदान्तिनः । . किश्च, अज्ञानात्यन्ताभावबोधोऽप्यज्ञाननिवृत्तिरूपो यद्यधिष्ठानात्मकः, तदा तस्य तत्वज्ञानजन्यत्वादधिष्ठानस्यापि
१ स.ग. घ. च 'तत्र.ब.।
For Private Personal Use Only
an Education international
www.jainelibrary.org