SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ "तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः। अविद्या सह कार्येण नासीदस्ति भविष्यति ॥१॥" इति । स चायमधिष्ठानात्मक एव, मिथ्याभूतस्य च बाध एव ध्वंस इत्यभिधीयते । अत एव शुक्तिबोधे रजतध्वंसव्यवहारः, न तु शुक्तिबोधेन रजतध्वंसः संभवति, रजतात्यन्ताभावबोधात्मको बाधस्तु शुक्तिज्ञानात्मक एव भवतीति । कथं तर्हि सर्वदा सत इच्छा, तदर्थप्रयत्नविशेषो वा ? इति चेत् । नास्माकं परेषामिव मुक्तिर्भिन्ना, किन्तु चिद्रूपैव, नित्यावाप्तव च, इच्छा-प्रयत्नविशेषौ तु कण्ठगतचामीकरन्यायेनानवाप्तत्वभ्रमात् । तन्निपित्तं चाज्ञानमेव । न चैवं मुक्तः पुरुषार्थत्वहानिः, तद्धि न पुरुषकृतिसाध्यत्वम् , विषभक्षणादेरपि तैथात्वापत्तेः । नाप्यभिलषितत्वे सति कृतिसाध्यत्वं तत् , गौरवात् , लाघवेनाभिलषितत्वमात्रस्यैव पुरुषार्थत्वौचित्यात् । चन्द्रोदये पुरुषार्थत्वमिष्टमेव, प्रवृत्तिविलम्बस्तु कृतिसाध्यताधीविलम्बात् । ततः सिद्धं नित्यावाप्तस्यैव कण्ठगतचामीकरवचैतन्यस्य पुरुषार्थत्वम् । इत्यस्माकं वेदान्तविवेकसर्वस्वमिति चेत् । ___ "मुक्तौ भ्रान्तिान्तिरेव प्रपञ्चे भ्रान्तिः शास्त्रे भ्रान्तिरेव प्रवृत्तौ। कुत्र भ्रान्धिर्नास्ति वेदान्तिनस्ते क्लुप्ता मूर्तिन्तिभिर्यस्य सर्वा॥१॥" कथं चास्य भ्रान्तस्य शास्त्रश्रवणाद् नित्यावाप्ते चैतन्येऽनवाप्तत्वभ्रमो न निवर्तते । कथं वा विदितवेदान्तः स्वयं | निवृत्तानवाप्तत्वभ्रमः परमुपदेशेन प्रवर्तयन् प्रतारको न स्यात् ।। । वेदान्तिनाम् । २ पुरुषार्थत्वापत्तेः। ३ तदा पुरुषार्थत्वपरामर्शः । Jain Education ona For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy