________________
शास्त्रवार्ता - समुच्चयः । ॥ ३०५ ॥
सद-सती, द्वैतप्रसङ्गो-देश्यत्व-विरोधेभ्यः, ज्ञानजन्यत्वाच्च । अस्तु तह्येनिर्वचनीया, जन्यत्वात्, तदुक्तम् - "जन्यत्वमेव जन्यस्य मायिकत्वसमर्पकम्" इति चेत् । न, अनिर्वचनीयस्य ज्ञाननिवर्त्यत्वनियमाङ्गीकारेण तन्निवृत्तिपरम्पराप्रसङ्गात् । अथ सद्वैतव्याकोपादसत्येव सा, असच्चेऽपि तस्या उद्देश्यत्व- ज्ञानजन्यत्वादि कल्पयिष्यत इति चेत् । नन्वेवमविद्याप्यसत्येव कार्यज
कल्प्यतामिति कृतान्तव्याकोपः । कल्प्यादर्शन संशयस्तूभयत्र तुल्यः । पञ्चमप्रकारत्वाश्रयणं त्वत्यन्ताप्रसिद्धम् ।
अस्तु तर्हि चैतन्यात्मिका विद्यानिवृत्तिरिति चेत् । मदुक्तमेवेत्थं चैतन्यस्य सदा सच्चेन तदर्थप्रयत्नवैफल्यं दूषणम् । अथ तत्वज्ञानोपलक्षितं चैतन्यमज्ञाननिवृत्तिः, तच्च न तत्त्वज्ञानतः प्रागस्ति, उपलक्षणत्वस्य संबन्धाधीनत्वात्; काकसंबन्धो हि गृहस्य काकोपलक्षितत्वमिति चेत् । न काकोपलक्षितत्वस्याप्येकान्ते काकसंबन्धोत्तरं तदाहितस्वभावानुवृच्या संभवदुक्तिकत्वात्, अनेकान्त एव तदुक्तेः 'अयं छत्री' इत्यादाविव योगसत्यपर्यवसानात् । किञ्च ज्ञानोपलक्षितत्वस्यापि सखेद्वैतव्याघातः असत्व उद्देश्यत्वानुपपत्तिः, मिथ्यात्वे ज्ञाननिवर्त्यत्वापत्तिः, चिन्मात्रत्वे चोक्तदोषानतिवृत्तिरिति न किश्चिदेतत् ।
अथ नाज्ञानस्य निवृत्तिर्नाम ध्वंसः, रूपान्तरपरिणतोपादानस्यैव तद्रूपत्वात्; घटध्वंसो हि चूर्णाकारपरिणता मृदेव | न च चैतन्यस्य रूपान्तरमस्ति । तस्माद् नास्त्येवाज्ञानध्वंसः, किन्त्वज्ञानस्य कल्पितत्वात् तदत्यन्ताभाव एव तन्निवृत्तिः । किं तर्हि तवज्ञानस्य साध्यम् । इति चेत् । नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्ववाधव्यतिरेकेण तदुक्तम्
१ अतः 'सर्वस्वम्' इति पर्यन्तो वेदान्तिपूर्वपक्षः |
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तबकः ।
॥ ८ ॥
॥३०५||
www.jainelibrary.org