________________
उक्तव्याख्यानस्य युक्तत्वमेव व्यवस्थापयन्नाहन चैतद्बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थितेः। संसार-मोक्षभावाच्च तदर्थ यत्नसिद्धितः॥
न च, एतत्- उक्तव्याख्यानम् , युक्त्या- न्यायेन, वाध्यते । कुतः ? इत्याह- सतां घटादिसत्त्वग्राहिणां शास्त्रादीनाम् , आदिनाजुमानादिग्रहः, व्यवास्थितेः- प्रामाण्योपपत्तेः । च-पुनः, संसार-मोक्षभावात्- संसार-मोक्षविभागस्य तात्विकत्वात् , तदर्थ- स्वर्गरूपसंसार-मोक्षार्थम् । तत्पदेन मोक्षस्यैवानुकर्षणात् सकलपुरुषार्थाग्रणीत्येन मोक्षस्य प्रसिद्धत्वात् , तत्पदस्य प्रसिद्धार्थत्वाद् वा तदर्थ- मोक्षार्थमिति वा; यनसिद्धितः- प्रेक्षावतां यम-नियमादिव्यापारोपपत्तेः ॥९॥
विपक्षे बाधामाहअन्यथा तत्त्वतोऽद्वैते हन्त ! संसार-मोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं संप्रसज्यते॥१०॥ ____ अन्यथा- उक्तविपरीतव्याख्याने, 'हन्त' इति खेदे, संसार-मोक्षयोस्तत्त्वतोऽद्वैते- अविभागे सति, सर्वानुष्ठानस्ययम-नियमादेः, वैयर्थ्यम्-निष्फलत्वम् , अनिष्टम्-परस्याप्यनभिमतम् , संप्रसज्यते- प्राप्नोति । संसारनिकृत्त्यर्थः, मोक्षार्थो वा मुमुक्षूणां सर्वोऽपि व्यापारः। स चाद्वैतवादे नोपपद्यते, संसारस्यासत्त्वेन नित्यनिवृत्तत्वात् , मोक्षस्यापि सच्चिदानन्दरूपब्रह्मात्मकस्य नित्यत्वेन नित्यावाप्तत्वात् । एवं च प्रपञ्चशून्यतायाः परमार्थत्वे नित्यमुक्ततापत्तिषणं मण्डनेनोक्तम् , तत्र गत्वा स्वगृहे प्रत्यावृत्तम् । अविद्यानिवृत्यर्थो मुमुक्षूणां यत्न इति चेत् । न, यतो न तन्निवृत्तिः सती, नाप्यसती, नापि
Jain Education Heatona
For Private & Personel Use Only
www.jainelibrary.org