________________
Selea
मसूद
सटीका। स्तबकः। ॥८ ॥
शास्त्रवार्ता- तदेवं व्यवस्थितमेतत्- प्रतीत्यनुरोधेन नाद्वैतमेव तत्त्वम् , किन्तु प्रपश्चोऽपि ब्रह्मवत् परमार्थसन्नेवेति ॥ ७॥ समुच्चयः। एतद्वादविषयविभागवार्तामाह॥३०४॥ अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये। अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ॥८॥
अन्ये- जैनाः, व्याख्यानयन्ति- व्याचक्षते, एवं- यदुत, समभावप्रसिद्धये- प्रपञ्चस्याविद्याविलसितत्वमात्रप्रदर्शनेन स्वात्मन्येव प्रतिबन्धस्थैर्यात् शत्रु-पुत्रादौ द्वेष-रागादिभावविच्छेदात् परमचित्तप्रसादरूपसाम्यसिद्ध्यर्थम् , शास्त्रे- श्रावकज्ञप्तिवेदे, अद्वैतदेशना- "आत्मैवेदं सर्व-ब्रह्मैवेदं सर्वम्" इत्यादिका, निविष्टा, न तु, तत्त्वतः- अद्वैतमेव तत्त्वमित्यभिप्रायेण । अत एव "पुरुष एवेदं सर्व निम्" इत्यादिश्रुतीनामापातार्थदर्शनजनितो गणधरसंशयस्तासामुक्तार्थमात्मार्थवादत्वेन तदीयसदाशयस्फातये प्रपञ्चसस्यतावेदकश्रुत्यन्तरप्रकटीकरणेन स्वयमेव भगवता निरस्तः । व्यक्तं चैतद् विशेषावश्यकादौ ।
यत्तु- "पुरुष एवेदम्" इत्यादावीश्वरस्य सर्वावेशनिबन्धनः सर्वतादात्म्यव्यवहारः' इति नैयायिकादीनां समर्थनम् , | तत्तु तदभिमतेश्वरनिरासाद् न शोभते; शोभते तु सर्वतादात्म्यप्रतिपादकश्रुतीनां सर्वविषयतारूपावेशपरत्वम् , निश्चयतः
सर्वस्य सर्वज्ञत्वात् । परमत्रापि स्वस्यैव सर्वात्मकत्वादन्यस्यानुपयोगित्वादनात्मप्रतिवन्धनिवृत्त्या साम्यसिद्धिरेव प्रयोजनमिति | युक्तं पश्यामः॥८॥
१द्वितीयगणधरवादप्रकरणे ।
॥३०॥
Jain Education Ha! ational
For Private & Personal Use Only
www.jainelibrary.org