SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ REPORO एवं च 'प्रपश्चो मिथ्या, दृश्यत्वात् , खमरथवत्' इत्यनुमानमपि निरस्तम् , मिथ्यात्वस्यात्यन्तासत्त्वरूपस्य साध्यत्वे- ऽसत्ख्यातिप्रसङ्गात् , अन्यथाप्रतीयमानत्वरूपस्य साध्यत्वेऽन्यथाख्यातेः प्रसङ्गात् , अनिर्वचनीयत्वरूपस्य साध्यत्वे च साध्याप्रसिद्ध स्वमरथादौ तथात्वासिद्ध्या दृष्टान्तस्य साध्यवैकल्यात् । स्वाभावसामानाधिकरण्यरूपस्य साध्यत्वेऽप्ययमेव दोषः, वस्यैव पररूपेण स्वाभावसामानाधिकरण्यात् सिद्धसाधनं वा, परमार्थसत्त्वाभावस्य साध्यत्वेऽपि परमार्थत्वस्यानिरुक्तः, परमार्थसत्वग्राहकप्रत्यक्षेण बाधाच्च । न चानुमानमिथ्यात्वं साधयन्तं लोकायतं प्रति यथा नानुमानबाधोपन्यासः फलवान् , तथोक्तप्रत्यक्षस्यापि मपश्चातगतत्वेन मिथ्यात्वं साधयन्तमद्वैतवादिनं प्रति न प्रत्यक्षबाधोपन्यासः फलवानिति वाच्यम् । तथा सत्येतदनुमानस्यापि मिथ्यात्वेनासाधकतयोपन्यासानुपपत्तेः । न चैतदनुमानमेव प्रत्यक्षबाधम् , प्रत्यक्षबाधपरिहारे तदनुमानप्रामाण्यम् , एतदनुमानप्रामाण्ये च प्रत्यक्षबाधपरिहार इतीतरेतराश्रयात् , अनन्यथासिद्धत्वेन प्रत्यक्षस्यैव बाधकत्वाच्च । न हि सत्त्वं चिना 'सत्' इति प्रत्यक्षमुपपद्यते, शशशृङ्गेऽपि तत्पसङ्गात् । उपपद्यते च मिथ्यात्वं विनापि दृश्यत्वमिति ।। हेतुरपि दृश्यत्वं दृविषयत्वरूपमनिरुक्तिपराहतम् ; तथाहि- तद् यदि दृग्-दृश्यस्वरूपसंबन्धविशेषः, तदोभयसंबधिरूपस्य तस्य मिथ्यात्व उभयोरपि मिथ्यात्वम् , सत्यत्वे चोभयोरपि सत्यत्वं स्यात् । यदि च दृगभेदः, तदा पक्षे तद. सिद्धिः, दृशि च व्यभिचारः। यदि च 'दृष्टो घटः' इत्यादिधीसाक्षिको विषयतापरपर्याय आध्यासिको गभेदस्तदा प्रतिवाद्यसिद्धिः, वादिनो दृग्-दृश्याभेदे भागासिद्धिश्च, आध्यासिकदृगभेदे दृगभेदान्तरस्यानवस्थापत्तिभिया वादिनाप्यनङ्गीकारात्; विरुद्धत्वं च, दृश्यत्वस्य मिथ्यात्वाभावव्याप्तत्वादिति न किञ्चिदेतत् । ParasRAATRA in Education L iga For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy