SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ सटीकः। स्तबकः। ॥८ ॥ शाखवार्ता- ग्रन्थकृतवान्यत्र- "तद्विभागानामेव नीत्यात्मत्वात्" इति । समुच्चयः। एतेन 'अज्ञानतद्विषयतोपाध्यवच्छिन्नत्वेन चैतन्यस्य जीश्वे-श्वरत्वविभागः' इत्यपि मतं निरस्तम् , स्वभावतोऽनवच्छि॥३०३॥ बस्योपाधिसहस्रेणाप्यवच्छेत्तुमशक्यत्वात् ; आकाशेऽपि घटाधवच्छिन्नत्वस्य चित्रस्वभावत्व एव सुवचत्वात् , अन्यथा तत्संबन्धानिरुक्तः, अवच्छिन्ना-ऽनवच्छिन्नस्वभावब्रह्मोपगमे च परमताङ्गीकारात् , स्वनीत्याऽनिर्मोक्षापाताच्चेति । न चावच्छिन्नत्वं विभागरूपमवास्तवम् , अनवच्छिन्नत्वं त्वविभागरूपं वास्तवमिति युक्तम् , विपर्ययस्यापि सुवचत्वात् । अन्यथा "यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा" इति व्यामोहेन शून्यताया एवापत्तेरध्यस्ताविद्यमानरूपप्रकाशोपगमेधिष्ठानस्याप्यनावश्यकत्वात् , व्यवहारदृष्टौ चैकानेकरूपस्यैव घटमानत्वात् । किञ्च, प्रतीयमानं सर्वेषां स्याद्वादमुद्रानतिभेदि सत्वमविशिष्टमपोद्य सचान्तर-तत्पतीत्यनुकूलशक्त्यादिकल्पने व्यसनमात्रमेव परेषाम् , न तु मानमस्ति, "तस्याभिध्यानात्" इत्यादिश्रुतेः- 'तस्यात्मनोऽभिमुखं ध्यानं क्षीणमोहगुणस्थानसंभवी केवल ज्ञानाभिमुखः शुक्लध्यानपरिणामः, ततो घातिकर्मक्षयात् , युज्यतेऽनेनेति योजनं केवलिसमुद्धातः, ततो वेदनीयायुःकर्मप्रदेशसमीकरणात् तत्त्वभावः सर्वसंवरः, ततोऽन्तेऽन्तक्रियायां विश्वमायानिवृत्तिः सकलकर्मनिवृत्तिः, प्रतिक्षणं बहुतरनिर्जरामूचनाय 'भूयश्च' इत्युक्तम् , कारणोपचय एव कार्योपचयसिद्धेः' इत्यस्यैवार्थस्य सम्यग्दृष्टिपरिग्रहमाप्तस्य न्याव्यत्वात् । तदुक्तम्- “सम्मदिहिपरिग्गहियं मिच्छसुअंपि सम्मसुअं" इति । सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक्श्रुतम् । COC ॥३०॥ Jan Education Inteman For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy