SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ इवोक्तवस्त्वन्तरपूर्वकत्वं विनापि विषयस्फोरकत्वोपपत्तेराद्यत्वस्य चानियम्यत्वादिति न किश्चिदेतत् । एवं च जीवे-श्वरादिविभागोऽप्यनुपपन्न एव । न च प्रतिबिम्बबादे, आभासवादे वा दृष्टान्तोऽपि दृष्टः, मुखे द्वित्वस्य, आदर्शस्थत्वस्य चानिर्वचनीयस्योत्पत्तौ 'आदर्श द्वे मुखे' इति प्रतीतिप्रसङ्गात् ; आदर्श मुखान्तरोत्पत्तौ च तदेवेदं मुखं यदादर्शस्थत्वेन दृष्टम्' इति प्रत्यभिज्ञावाधात् । अथ प्रतिबिम्बवाद आदर्शस्थत्वस्य मुखे द्वित्वावच्छेदेनानुत्पत्तेः 'आदर्श दे मुखे' इति न प्रतीतिः आभासवादे च 'तदेवेदम्' इति भ्रम एवेति चेत् । न, 'आदर्श मुखपतिबिम्बम्' इति प्रतीतिप्रामाण्यात् तत्र विम्बाख्यद्रव्यस्यैवोत्पत्तेः स्वीकर्तुं युक्तत्वात् , द्वित्वाख्यस्य प्रतिबिम्बस्यादर्श भावात् , अनिर्वचनीयमुखोत्पत्तौ च प्रतिबिम्बप्रतीतेः प्रामाण्यानुपपत्तेः । कथं तर्हि तत्र भ्रमव्यवहारः इति चेत् । बिम्ब-प्रतिबिम्बयोरभेदपतीतेः । अत एव न 'तदेवेदम्' इति प्रत्यभिज्ञापि दुरुपपदा, प्रतिबिम्बाभेदभ्रमविषयस्य तदर्थस्येदमर्थेऽभेदावाधादिति । अधिकं सांख्यवार्तायां विवेचितम् । ततः प्रतिबिम्बस्य रूपवत एव भावाद् नेश्वर-नीवयोर्बिम्ब-प्रतिबिम्बादिभावः । न चाकाशस्यामूर्तस्यापि प्रतिबिम्बं दृश्यत इति युक्तम् , आकाशस्यायोग्यत्वे तत्पतिविम्बस्य सुतरामयोग्यत्वात् ; जले प्रभामण्डलाद्यवच्छिन्नयोग्यदेशस्यैव प्रतिविम्बोपपत्तेः । 'अमूर्तेऽपि ज्ञाने विषयप्रतिविम्बाभ्युपगन्त्रा कथममूर्ते विम्बप्रतिविम्वभावः शक्यः प्रतिक्षेप्तुम् ?' इत्यप्य ज्ञानविजृम्भितम् , विषयग्रहणपरिणामस्यैव प्रतिविम्बत्वेनाभ्युपगमाव , इत्थमेव विषयाकारापतिसंक्रमादिना ज्ञानस्य प्रतिबिमाम्बाकारताप्रतिक्षेपस्य ज्ञानवादिकृतस्य प्रत्युक्तरित्यन्यत्र विस्तरः । नन्वस्माभिरपि जीवे-श्वरभावेन द्वित्वमेव प्रतिविम्वत्वेनो पेयत इति न दोष इति चेत् । न, अतत्स्वभावस्य तस्चायोगात् । तत्स्वभावत्वे चैका-ऽनेकवस्त्वङ्गीकारे परमताश्रयणात् । तदुक्तं Jain Education ona For Private Personal Use Only |www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy