________________
शास्त्रवार्ता- समुच्चयः। ॥३०२॥
सटीकः। स्तबकः। ॥८॥
H
तस्य स्वविषयावरणनिवृत्तिहेतुत्वाभावात् । न च स्मृतौ व्यभिचारः, तस्याः स्मृतिप्रागभावरूपस्वविषयावरणनिवर्तकत्वादिति वाच्यम् । तस्य स्वविषयावरणत्वाभावात् , तत्सत्वेऽप्यनुभवदशायां तद्विषयस्फुरणात् । न चैवं प्रमाणज्ञानप्रागभावस्यापि खविषयावरणत्वाभावात् तयात्त्यर्थस्यायधिशेषणस्य वैयर्थम् , अत्यन्तापूर्वार्थज्ञानप्रागभावस्य तथात्वात् । आद्यज्ञानस्य पक्षत्वाद् न तत्र व्यभिचारः। हेतुत्वं च पुष्कलहेतुत्वम् , तेन नेश्वरादौ प्रतियोगिनि चावरणे व्यभिचारः । न चासंभावनादिनिवर्तके श्रवणादौ व्यभिचारः, असंभावनादेः स्वविषयावरणत्वे साध्यसद्भावात् । न च तेनैव सिद्धसाधनम् , तस्य ज्ञानानिवर्त्यत्वात् । दृष्टान्तेऽपि सवितृकिरणस्थासु द्वितीयाद्यासु च दीपप्रभासु साध्यसाधनवैकल्यपरिहाराय विशेषणद्वयोपादानम्' इति स्वगृहविचारपरिष्कृतमनुमानमपास्तम् , निरुक्त खविषयावरणत्व स्वनिवर्त्यत्वाभावेनास्माद् मूलाज्ञानस्यासिद्धेः, विशिष्टतथात्वस्य चानिमसक्तत्वात, तूलाज्ञानसाधनेऽपि श्वैत्यानुमित्यादेः पक्षीकरणे बाधात , तद्वहिर्भावे च व्यभिचारात् । तत्पक्षीकरणेऽप्यसति खनिवृत्तिप्रतिबन्धके 'तद्विषयस्फुरणाभावप्रयोजकत्वं तद्विषयावरणत्वम्' इत्युक्तौ न दोष इत्यस्यापि येषां पक्षीकृतज्ञानानामावारके स्वनिवृत्तिप्रतिबन्धकासिद्धिः, तत्र साध्यासिद्ध्या वक्तुमशक्यत्वात् ; हेतोरपि स्वविषयावरणनिवर्तकत्वरूपस्योपादानेऽसिद्धेः, अप्रकाशितप्रकाशशब्देन तदुपादानेऽपि तदपरिहारात , न खलु शब्दान्तरोपादानेनाप्याच्छादनं भवति । स्वविषयावरणनिवर्तकत्वव्यपदेशविषयत्वस्य हेतुत्वे तु सुखादिज्ञाने द्वितीयादिधारावाहिकेषु च मिथ्याज्ञाननिवर्तकत्वव्यपदेशविषयेषु व्यभिचारो दुनिर्वारः। दृष्टान्तेऽपि साध्यगतज्ञानविषयतायाः प्रभाविषयतासाधारणत्वाभावेन साध्यवै. कल्यम् । उपाधिश्वात्र चेतनत्वादि । न चात्रानुकूलतर्कोऽपि कश्चिदस्ति, अप्रकाशितार्थप्रकाशकेऽपि प्रकाशितार्थप्रकाशक
॥३०२|
Jan Education International
For Private Personal Use Only
www.jainelibrary.org