SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ पारसनगमरममावनमार परोक्षज्ञानादज्ञाननिवृत्ताव परोक्षभ्रमनिवृत्तिप्रसङ्गः, इष्टापत्तेः, 'रज्जुरियं न सर्पः' इत्याप्तोपदेशे तद्दर्शनात् । न च 'पीतः शङ्क:' इत्यादौ श्वैत्यानुमित्या तदज्ञाने नष्टे भ्रमनिवृत्तिप्रसङ्गः, अस्य भ्रमस्य सोपाधिकत्व उपाधेरेवाज्ञाननिवृत्तौ प्रतिबन्धकत्वात् । यदि च रविरश्मिभिः सह पित्तधातोः शङ्खदेशं यावद् गमने शङ्खसंपृक्तस्य च तस्य चाक्षुषयोग्यत्वे दोषवशेन च द्रव्याग्रहणेऽपि रूपमात्रग्रहणे मानाभावाद् गौरवाच्च, भ्रमस्य च पीतत्वसंस्कारादेव पित्तदोषसहितादुपपत्ते यं पित्तोपाधिकः, तदा पित्तदोषस्यैव तथात्वादिति । रजतज्ञानेऽपि न बाधः, तस्य सुखादिज्ञानवत् पक्षत्वाभावात् । साध्ये ज्ञानप्रागभावव्यावृत्त्यर्थमाद्यं विशेषणम् ।' न च स्वनिवर्त्यपदेन तद्वयावृत्तिः, तन्नित्तेः स्वानतिरेकादिति वाच्यम् ; 'सादिरनन्तो ध्वंसः' इति मते तदतिरेकात् । उत्तरज्ञाननिवर्त्यपूर्वज्ञानेन भिन्न विषयेण सिद्धसाधनवारणाय स्वविषयावरणेति । यस्मिन् सति ज्ञानविषयो न स्फुरति तत् स्वविषयावरणम् , न च पूर्वज्ञान तथा, तस्योत्तरज्ञानविषयस्फुरणाभावापयोजकत्वात् । असंभावनाविपरीतभावनात्मकादृष्टव्यावृत्तये तृतीयं विशेषणम् । प्रमातृनिष्ठाज्ञानसिद्ध्यर्थ स्वदेशगतेति । मिथ्याज्ञानं व्यावर्तयितुं वस्त्वन्तरेति । हेतावपि द्वितीयादिधारावाहिक ज्ञाने व्यभिचारवारणाया प्रकाशितेति । अप्रकाशितप्रकाशशब्देन स्वविषयावरणनिवृत्तिरूपो व्यवहारो विवक्षितः । न च धारावाहिकद्वितीयादिज्ञाने तद्धेतुत्वमस्ति, स्वविषयावरणनिवृत्तेराद्यज्ञानकार्यत्वात् । न च हेत्वसिद्धिः, साध्योपात्तस्वविषयावरणनिवृत्तेरप्रकाशितार्थव्यवहार शब्देन विवक्षितत्वात् । न च चक्षुरादौ व्यभिचारः, तस्य ज्ञानजननेनान्यथासिद्धत्वात् । न च साधनवैकल्यं दृष्टान्तस्य, स्वविषयावरणान्धकारनिवृत्तिहेतुत्वात् । न च सुखादिज्ञाने व्यभिचारः, १ ख, ग, 'तददर्श' । २ ख. ग. घ. 'क्षुषायो' । Jain Educat i on For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy