SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातोंसमुच्चयः । ॥३०१॥ वासंप्रतिपत्तेः न हि घटनाशे स्वरूपात्मकघटसंवन्धनाशो न तु सत्चानाश इति जैनाः प्रतिपद्यन्ते; न वोत्पाद-व्यय- ध्रौव्यपरिगतरूपवहिस्कृतां सत्तामेव प्रमाणयन्तीति । न च घटविषयतानिवृत्तिरपि सुवचा, स्वभावभूताया घटसंसृक्तावरणजनकता रूपायास्तस्या निःस्वभाववतोऽनिवृत्तौ निवर्तयितुमशक्यत्वादिति । विषयास्फुरणप्रयोजकतयापि न तत्सिद्धिः, विषयस्फुरणस्वभाव एवात्मन्यभ्युपगम्यमाने परनिमित्ततदस्फुरणस्वभावनिर्वाहाय तत्यतिबन्धकज्ञानावरणकर्मकल्पनौचित्यात् । तदस्फुरणस्वभावे तु किं स्फुरणप्रतिबन्धकेन । न हि प्रतिबन्धकनिवृत्त्यापि तदस्फुरणस्वभावस्य तत्स्फोरकत्वं नाम, मणिनिवृत्तावपि दाहकस्य दहनस्येवादाहकस्याम्भसो दाहकत्वादर्शनादिति । एतेन 'विवादगोचरापनं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्व विषयावरणस्वनिवर्त्य स्वदेशगत वस्त्वन्तर पूर्वकम्, अप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्रदपिप्रभावत् । अत्रातीतत्वज्ञानं घटादिज्ञानं चोक्तसाध्यवदिति वेदान्तिनः, नेत्यपरे, इति विवादविषयतापन्नज्ञानानां पक्षत्वात् सुखादिज्ञाने विवादाभावेनापक्षत्वाद् न बाधः । नापि धारावाहिकज्ञाने बाधः, एकस्या एव वृत्तेरेतावदूरमवस्थानासंभवेन तदभावात् ; भावे वोक्तविवाद्गोचरत्वाभावेन पक्षताया अभावात् । न च घटादिज्ञाने स्वविषयस्य घटादेर्जडत्वेन तदावरणाभावाद बाधः, घटावच्छिन्न चैतन्यस्यैव वृत्तिरूपघटादिज्ञानविषयत्वात्, अज्ञानेन तत्रावरणजननात्, अज्ञानविषयत्ववज्ज्ञानेनापि तत्रैव तन्निवृत्तिजननाज्ज्ञानविषयत्वोपपत्तेः, ज्ञाना-ऽज्ञानयोः समानविषयत्वप्रसिद्धेः, अदूरविप्रकर्षेण घटादेरुभयविषयत्वव्यपदेशात् । नाप्यनुमितिज्ञाने वाघः, तस्याप्यज्ञान निवर्तकत्वात् । न च १ ख ग घ 'नादिति ज्ञा' । Jain Education International For Private & Personal Use Only Baboodl सटीकः । स्तवकः । ॥ ८ ॥ ॥३०६ ॥ *www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy