________________
इत्यादाविति चेत् । न, सूक्ष्मरूपेण साक्षिसिद्धत्वे तस्य श्रद्धामात्रात् । अन्यथा घटादिज्ञानोत्तरमपि सूक्ष्मरूपेण तद्भाfo नोपगमप्रसङ्गात् । किन, अस्मिन् पक्षे परचित्ताग्रहणे परं प्रति पर्यनुयोगाप्रसङ्गः, तद्ग्रहणं च स्वाध्यस्तत्वेनेति स्व-परचित्तA संकरप्रसङ्गः। स्वचित्ते परकीयत्वमध्यस्य कथाया त्वव्यवस्था । तस्माद् दृष्टि सृष्टिवादोऽपि वेदान्तिनां शून्यतावादाद् न विशिष्यते । तथाच सुष्ट्रपहसितमेतत्--
___"प्रत्यक्षादिप्रसिद्धार्थविरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ? ॥१॥" इति ।
अपि च, अविद्यायामेव मानाभावाद् विशीर्यते सर्व तन्मूलं वेदान्तिमतम् । म च 'न जानामि' इत्यनुगतः प्रत्ययस्तत्र मानम्, 'अहम्-अहम्' इत्यनुगतमत्याऽहंत्वस्याप्यनुगतस्य सिद्ध्यापत्तेः । न च 'जानामि' इत्यत्रानुगतविषयानुपपत्तिर| प्यमान् प्रति सिद्धा, सर्वात्मना स्वरूपज्ञानाभावस्य सर्वत्रानुगतत्वात् , सर्वात्मना स्वरूपज्ञानस्यानुवृत्ति-व्यावृत्तिपर्यायद्वारा
सर्वज्ञाननियतत्वाद् विना सर्वज्ञ कुत्राप्यर्थे तदनुपपत्तेः । तदयमाचाराने परस्परसमनियमाभिप्रायः परमर्षिवचनोद्गार:| "जे एगं जाणइ से सव्वं जाणइ, जे सध्वं जाणइ से एवं जाणइ" इति । घटज्ञानादिनिवर्त्यमपि मिथ्याज्ञानरूपं सम्यग्ज्ञानप्रागभावरूपं वाऽज्ञानं त्वतिरिक्तम् । परेषां तु घटादिज्ञानात् तदज्ञानानिवृत्तिप्रसङ्गः, अनुगताज्ञानस्य मुक्तावेव निवृत्तेः । न च घटज्ञानाद् (दो)घटविषयतामात्रस्य निवृत्ति ज्ञानस्य, यथा परेषां घटनाशे घटसंबन्धनाशः सत्ताया इति वाच्यम् , दृष्टान्तस्ये
१ य एक जानाति स.सर्व जानाति, यः सर्व जानाति स एकं जानाति ।
Jain Education in
For Private & Personel Use Only
Plwww.jainelibrary.org