________________
शास्त्रवातासमुच्चयः। ॥३०॥
COOODC
सटीकः। स्तबकः ।
. किञ्च, भ्रमहतोरज्ञानाद् नाधिष्ठानज्ञानोत्पत्तिरन्यत्र दृष्टा । न हि शुक्यज्ञानाद् रजतभ्रमः, तत एव च शुक्तिज्ञानमिति । अविद्यया मृत्यु ती; शास्त्रात् तथा कल्प्यत इति चेत् । न, शास्त्रस्य खमतुल्यत्वात् , शमाद्यनुपसंग्रहानुदाराच्च । अथ लोकेऽज्ञानातिरिक्तकारणाभावेऽपि वेदे यागादौ स्वर्गादिसाधनता संमतैव । ततश्च यागादेः स्वर्गादिसाधनत्वं प्रतीत्य यागमनुतिष्ठतामुत्पन्नस्य स्वर्गसूक्ष्मरूपस्य यागमूक्ष्मरूपस्य वाऽपूर्वस्य स्वर्गजनकत्वम्, अन्यथाऽव्यवस्थाप्रसङ्गात् । ततश्च वेदान्तेष्वप्याश्वासात् शमादिसंपच्या ब्रह्मज्ञानसिद्धिरिति चेत् । न, लोकसिद्धकार्यकारणभावपरित्यागे वेदेऽप्यनाश्वासात् । न हि स्वप्रयोजनमपेक्ष्यक प्रमाणम् , अपरं चाप्रमाणं भवितुमर्हति । न च बलवत्वाद् वेदः प्रमाणम्, न तु प्रत्यक्षादिकमिति वाच्यम , प्रत्यक्षादिबाधितेऽर्थे वेदापामाण्येन प्रत्यक्षादीनामेव बलवत्वात् ।
किञ्च, याग-स्वर्गादिहेतुहेतुमद्भावं प्रतिपादयन् वेदः स्वमयाग-स्वर्गयोरपि हेतु-हेतुमद्भावं किं न बोधयेत् । तत्र वेदाप्रामाण्यादिति चेत् । कुत्र तर्हि तत्मामाण्यम् । तद्विलक्षणयाग-स्वर्गयोरिति चेत् । न, आभासमानसत्त्वानङ्गीकारे तद्वैलक्षण्यासिद्धेः, सिद्धौ वा दण्ड-घटादेरपि कार्यकारणभावः सिध्येत् । किञ्च, अपूर्वमपि साक्ष्यसिद्धत्वात् कथमभ्युपेयम् । अज्ञानकारणत्वात् साक्षिसिद्धमेव तत् । उक्तं हि संस्कारस्य साक्षिसिद्धत्वमभियुक्तैः
"सुप्तेऽस्मिन् विषयग्रामे योऽसुप्तो लुप्तदृष्टितः । वासनारूपकान् पश्यन् प्राणान् प्राणिति वायुना ॥ भावनाकारकेक्षित्वादात्मैकः कारकायते ॥"
॥३०॥ .
Jain Education Interna
For Private & Personel Use Only
RAHainelibrary.org