SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte नस्य स्थायित्वासिद्धेः; नीलाद्याकारेणास्थायित्वदर्शनात् । नीलाद्याकाराः स्वाध्यस्ता अतिरिक्ता एव, साक्षी तु चिद्रूपः स्थायीति चेत् । न नीलादिविनिर्मुक्तस्य चिद्रूपस्याभासमानत्वेनासत्त्वात् । नीलपीतादिभानानुगतं चिद्रूपमेव स्थायीति चेत् । तर्हि नीलादिरूपमपि प्रतिममात्रनुगतं स्थायीभवेत् । संतानभेदाद् नीलादिभेदवेत् । नीलाद्याकारभेदाच्चिद्रूपस्यापि किं न भेदः ? | अज्ञानमपि नानादिसकलदृष्टिहेतुः नित्यस्य क्रमिकनानादृष्टिहेतुत्वानुपपत्तेः कारणान्तरविलम्बाभावादेकस्मादेकदैव सर्वोत्पत्तिप्रसङ्गात् । तज्जनितक्रमिक ज्ञानेभ्यः कार्यभेदनिर्वाह इति चेत् । न, एकस्य तस्य जन्यनानाऽज्ञानजननेऽप्यस्य प्रसङ्गस्य तुल्यत्वात् । कालभेदात् ततो भिन्नभिन्नकार्योत्पत्तिसंभव इति चेत् । कालभेदादेव तर्हि कार्यभेदनिर्वाहे दत्तोऽज्ञानाय जलाञ्जलिः । न चैकस्य स्वभावभेदं विना कालभेदस्यापि सहकारः, स्वभावभेदे च गतमनादित्वेनेति । किञ्च, एवं लोकसिद्धदण्ड घटादिकार्यकारणभाववत् शब्दसिद्धयागस्वर्गाद्य-गम्यागमननरकादिसाध्यसाधनभावस्यापि स्वामिकतुल्यत्वात् वेदान्तेष्वप्यनाश्वासप्रसङ्गाच्च वेदान्तिनां यथेष्टाचरणप्रसङ्गात् । यदि हि विहितात् स्वर्गः, निषिद्धाद् नरको वा न स्यात् किमर्थं तर्हि विहितमनुतिष्ठन्तः, निषिद्धं चावर्जयन्तः क्लिश्येरन् ? इति । अपि च, अनात्मदृष्टिसृष्टे - रनवसानप्रसङ्गः । न चाधिष्ठानज्ञानात् तदवसानम्, तद्धेत्वभावात् । अज्ञानं तद्धेतुरिति चेत् । ज्ञानतोऽसत्यपि दण्डादौ घटाद्युत्पत्तिवत् शमाद्यत्वेऽपि तत एवाधिष्ठानज्ञानोत्पत्तेः शमाद्यननुष्ठानप्रसङ्गात् । भ्रान्त्या तदनुष्ठानमिति चेत् । न, सकृद्वेदान्तार्थश्रवणवतां तदभावप्रसङ्गात् । न च प्राथमिकघटप्रतिभासे दण्डाद्यपेक्षावत् प्राथमिकाधिष्ठानज्ञाने शमाद्यपेक्षोपपत्तिः, कचित् तावत्प्रतिभासहेतूप निपातेऽपि नियमासिद्धेः । For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy