SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ शाखवार्तासमुच्चयः ॥२९९॥ सटीकः। स्तबकः । ॥८॥ "आशामोदकतृप्ता ये ये चास्वादितमोदकाः। रस-वीर्य-विपाकादि तुल्यं तेषां प्रसज्यते ॥१॥" इति । जागर-स्वमसुखयोः स्वाध्यस्तत्वेन तुल्यत्वेऽपि सत्या-ऽसत्यमोदकभक्षणजन्यत्वेन विशेष इति चेत् । न, तु- ल्याज्ञानजन्यत्वेन द्वयोस्तुल्यत्वात् , तत्र बहिरन्तर्विभागस्यापि स्वप्ने मोदकादेवहिष्ट्रेनानुभवेन तुल्यत्वात् । तत्र बहिष्ट्रमध्यस्तमिति चेत् । अन्यत्रापि तदध्यस्तत्वं सुवचम् । एकस्यैव सत्यमोदकस्य बहिर्वहुभिरनुभवात् तत्र वहिष्टुं नारोपितमिति चेत् । स्वमेऽपि सुवचमेतत् । स्वमे प्रतिसंतानमनुभूतानां नानावे च जागरेऽपि प्रतिसंतानपनुभूतानामेकत्वे का प्रत्याशा। दृग्दृश्यसंबन्धायोगादनन्तानिर्वचनीयानां काल्पनिकतादात्म्याश्रयणापेक्षया तत्तदाकारगुत्पत्तेरेव लघुत्वेन वक्तुं युक्तत्वात् । 'इष्टमेवेदं दृष्टिसृष्टिवादेः तथाहि-नास्मिन् मते चैतन्यातिरिक्तपदार्थानामज्ञातसत्त्वमस्ति, मिथ्यात्वस्य स्वमादिदृष्टान्तसिद्धत्वात् , तादृशस्यैव सत्त्वस्याङ्गीकारात् । एवं च 'घटादीनां यदा प्रतीतिस्तदा सत्त्वं नान्यदा, इति न दण्डादिजन्यत्वम् , किन्त्वज्ञा. नमात्रजन्यत्वं, स्वमवच्च दण्डाद्युपादानम् ; अज्ञानदेहादिकं तु भासमानमेव तिष्ठति; अभावनिश्चयाभावाच्च पुत्राधभावकृतरोदनाद्यप्रसङ्गः प्रत्यभिज्ञानमपि भ्रम एव ततश्चाकाशादिक्रमेण सृष्टिः पञ्चीकरणं ब्रह्माण्डाग्रुत्पत्तिः' इत्यादिकं मतान्तरे देवताविग्रहन्यायसिद्धमपि नास्मिन् मते दृष्टिव्यतिरेकेण सिध्यति । अत एवार्थानां नानेकप्रमाणवेद्यत्वम् , किन्तु 'चक्षुषा पश्यामि' इत्यादिव्यवहारस्य स्वमतुल्यत्वात् सुखादिवत् केवलसाक्षिवेद्यत्वम् । कथं तर्हि घटादेरपरोक्षत्वम् , वह्नयादेश्च परोक्षत्वम् , अज्ञानजन्यत्वस्य साक्षिण्यध्यस्तत्वस्य च तुल्यत्वात् ? इति चेत् । वढ्यादौ परोक्षत्वस्याप्यध्यस्तत्वाद् विशेषसिद्धेः । न च बौद्धमतप्रवेशः अधिष्ठानस्य स्थायित्वात् , अबाधितत्वाच्च, अज्ञानस्याप्यनादेः सकलदृष्टिदेतोरङ्गीकारात्' इति चेत् ।न, अधिष्ठा in duelan Intematon For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy