SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ रेकानुविधायित्वव जाग्रत्मपश्चाज्ञानान्वय-व्यतिरेकानुविधायित्वाच । न च जाग्रत्तपञ्चाज्ञानमेव तदारम्भकम् , शुक्तौ रजतो. HP त्पत्तिवज्जाग्रत्मपश्चे स्वामिकरथाद्युत्पत्यापत्तेः । न चेष्टापत्तिः, तत्सामानाधिकरण्येन स्फुरणाभावात् , यदि यदज्ञानेनोत्पद्यते तत् तत्सामानाधिकरण्येन स्फुरति' इति नियमात् । अत एवान्तःकरणावच्छिन्नचैतन्याज्ञानं न तदारम्भकम् , साक्षिवेद्येऽन्त:करणेऽज्ञानासंभवाच्च । यत्तु “चिन्मात्रनिष्ठमूलाज्ञानमेवेश्वरत्वावच्छेदेन गगनादि सर्वमारम्भमाणं जीवत्वावच्छेदेनाप्यहङ्कारस्वमादिचित्सामानाधिकरण्येन स्फुरदारभते, जाग्रत्पपश्चाज्ञानान्वय-व्यतिरेकानुविधानं तु स्वमारम्भकनिद्रादोषेणान्यथासिद्धम् , संसारदशायां वाधस्तु सविलासाज्ञाननिवृत्तिरूपो नेष्ट एव, अभावबोधो बाधस्तु स्वप्रारम्भकाज्ञानानिवृत्तावपि तूलाज्ञानानङ्गीकारपक्षे रजतादाविव संभवी, स्वमारम्भकनिद्रादोपनिवृत्त्याऽऽरोप्याभावज्ञानोपपत्तेः" इति । तद् न, मृलाज्ञानजन्यत्वं स्वमरथादेपेटादेरिव निवृत्तावपि मिथ्यात्वपतीत्यनुपपत्तेः, तज्जन्यमिथ्यात्वप्रतिपत्तावाद्यशक्तेः प्रतिबन्धकत्वात, सामान्यता मिथ्यात्वधीप्रतिवन्धिकायां तस्यां तत्तहोपनिवृत्तेरुत्तेजकत्वे विनश्यदवस्थदोषजनिते रजतादौ तदानीमेव मिथ्यात्वप्रतिपच्यापत्तेः, एकदोषनिवृत्तावन्यमिथ्यात्वबुद्ध्यापत्तौ तत्तन्मिथ्यात्वबुद्धौ तत्तदोपनिवृत्तिहेतुत्वावश्यकत्वाच । न च तथापि निद्रादोष| निवृत्ती खमावगताथेमिथ्यात्वधी:, शुभारोपनीतजागरसंवादिभाव्यर्थदर्शनेन तदसिद्धेः,हेतुविशेषं विना निद्राविशेषानुपपत्तश्च । अपिच, एवं जाग्रहशायामिव खादशायामपि मोदकभक्षणजन्यं सुखं समानं स्यात, खाध्यस्तत्वाविशेषात् तथा चाया. तोऽयं न्यायः-- P Jain Education Insula - ForPrivate sPersonal use Only alwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy