________________
शास्त्रवार्ता - समुच्चयः । ॥२९८॥
'इदमेव रजतं शुक्तित्वेनाज्ञासिषम्' इत्याद्यनुभवविरोधः एवमन्यत्र 'असदेव रजतमत्रान्त्रभवम्' इत्याद्यनुभवविरोधः तस्य भ्रान्तत्वे वाधकत्वापत्तिः, मिध्यारजतस्य तत्रासत एवोपगमे चासत्ख्यात्यापत्तिः । तत्र 'असदेव' इत्यस्य तन्निष्ठात्यन्ताभावाप्रतियोगित्वमर्थः, अविरुद्धं च तत् सति तत्रासति च तत्रेति चेत् । कथं तर्हि तत्र सत्त्वा सच्चाभ्यां निरुक्तिविरहः ? | वाघा-वाघदशयोः सच्चा सच्चाभ्यां निरुक्तावप्येकदा तथा निरुक्तिविरहोपगमाद् न दोष इति चेत् । न तुल्यन्यायेन घटादावप्यवमनिर्वचनीयतापत्तेः । अत एवैकपदेन तथाऽप्रतिपाद्यत्वाज्जगत एव तथात्वं व्यवस्थापितमवक्तव्य भङ्गके ।
अथ नाशक्यनिरुक्तिकत्वमनिर्वचनीयपदार्थः, किन्तु निरुक्तिनिमित्तविरह इति चेत् । ननु किं तद् निमित्तं ज्ञानं वा, विषयो वा ? | नाद्यस्य विरहः,
" रजतं भाति यद् भ्रान्तों तत् सदेके, परे त्वसत् । अन्येऽनिर्वचनीयं तदाहुस्तेन विचार्यते ॥ १ ॥”
इति स्वयमेव तद्भानाभ्युपगमात् । सत्यस्थल इवात्रेदं रजतयोरेकवृत्यनङ्गीकाराद् न दोष इति चेत् । अयमपरस्तत्र दोष:- 'इदं च रजतं च' इति समूहालम्बनम्, व्यावृत्तविशिष्टज्ञानस्यैकदृत्तिं विनाऽनुपपत्तेः । नापि द्वितीयस्य विरहः, सद्रूपस्याद्रूपस्य वा विषयस्यासच्चे सत्ख्यातेः सत्ख्यातेश्व प्रसङ्गात् ; उभयरूपस्य निवृत्तेश्च लोकेऽप्रतीतेः, एकनिषेधेऽन्यविधिनियमात्, अलौकिकतन्निवृत्तेश्चाकिञ्चित्करत्वादिति दिग् ।
एवं स्वमरथादयोऽपि नानिर्वचनीयाः, निद्रादोषेण स्वप्नेऽसंनिहितरथादीनामेव संनिहितत्वादिना भावात् परेषां तु महत्यनुपपत्तिः; तथाहि— न तावद् मूलाज्ञानकार्य स्वमः संसारदशायां बाधात्, रजतभ्रमस्य शुक्त्यज्ञानान्त्रय व्यक्ति
Jain Education International
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ ८ ॥
॥२९८॥
www.jainelibrary.org