________________
परोक्षे मैत्रस्याप्यपरोक्षं स्यात् । मैत्र- चैतन्या भेदेनानुत्पन्नत्वाद् नायं दोष इति तु रिक्तं वचः, इदंदृश्या स्वाभिने इदमंशचैतन्येsध्यस्तत्वेन तस्य तदभिन्नत्वात् । अविद्यावृत्त्या तदभेदोऽपेक्षित इति चेत् । तादृशतदभेदस्याविद्यानिवृत्तिनियम्यत्व आत्माश्रयः । इदमंशावच्छेदेन चैत्रीयरजत इदमंशावच्छेदेन चैत्रीया ज्ञानहेतुत्वकल्पने चातिगौरवम्, सामान्यत एवेदं विशेव्यकरजतत्वप्रकारक भ्रमं इदं विशेष्यक शुक्तित्वप्रकारकज्ञानाभावस्य हेतुत्वौचित्यात् ।
एवं भ्रमानुमितावपि पर्वते वस्तत्संसर्गस्य वोत्पत्तौ शुक्तौ रजतवत् तत्र तदपरोक्षत्वापातः । दृश्यमानप्रदेशावच्छेदेन वन्यनुत्पत्तेर्न दोष इति चेत् । न, शुक्तित्वानवच्छेदेनेदंत्वावच्छेदेन च शुक्तौ रजतोत्पादाद 'शुक्तिं रजतं साक्षात्करोमि इत्यप्रत्ययेऽपि शुक्तित्व परित्यागेन 'इदं रजतं साक्षात्करोमि इति प्रत्ययवददृश्यमानदेशावच्छेदपरित्यागेन प्रकृते पर्वतत्वाव च्छेदमादाय 'पर्वते वह्निं साक्षात्करोमि' इति प्रसङ्गात् । पर्वतत्वविषयिणी वृत्तिरिदंत्वविषयिण्यपि इदंत्वं च दृश्यमानप्रदेशावच्छिन्नत्वम्, तथा चेदं पर्वतत्वं वन्युत्पत्तिं कथमवच्छिन्यात् ? इति चेत् । नन्वेवं 'अयं पर्वतो वह्निमान्' इत्युल्लेखादेतदेश एव वहन्युत्पत्तिर्वाच्येत्यति संकटम् । एतेन "पर्वतत्वेन ज्ञानादधिष्ठानज्ञान सिद्धि:, पक्षतापि पर्वतत्वेन" इति निरस्तम्, 'अयं पर्वतो वह्निमान्' इति स्फुटमनुभवात् ।
अपि च, 'इमे रजत-शुक्ती' इत्यत्र संनिकृष्टशुक्ति-रजतयोरन्योन्यतादात्म्योत्पत्तावविनिगमः, धर्म्यश इत्र प्रकारांशेऽपि प्रमाणतापत्तिः; संनिकर्ष सत्त्वेऽन्यथाख्याति स्वीकारे चान्यत्राप्येकत्र क्लृप्तत्वेन तत्स्वीकारापत्तिः; तत्रारजतादिस्वीकारेऽपि
१ सप्तमी ।
Jain Education national
For Private & Personal Use Only
www.jainelibrary.org