________________
सटीकः । स्तबकः। ॥८॥
शास्त्रवार्ता- द्रव्यस्य चक्षुर्ग्राह्यतानियतस्वभावरूपाधारतायोगात् । एतेन "अनुभवत्वस्यैव लाघवेन साधकतावच्छेदकत्वात् पुरोवर्तिनि समुच्चयः। सर्पसिद्धि इत्यपास्तम् । अनुभवस्यार्थसाधकत्वं हि नार्थोत्पादकत्वम् , किन्त्वर्थग्रहणपरिणामः, इति तत्र सर्पज्ञानसिद्धावपि ॥२९७॥
सर्पोत्पत्त्यसिद्धेः। न च तत्रानुभूयमानस्यान्यत्र सत्त्वादिकल्पने गौरवम् , तवैव तदुपादानाज्ञानस्याऽन्तरवच्छेदेन तदनुभवाय तदाकारवृत्तेः, रज्जुसत्त्वस्य तत्र भावेऽन्यथाख्यात्यापत्तिभिया तत्संसर्गोत्पत्यादेश्व कल्पने गौरवात् । '
किश्व, तत्र सवसंसर्गोत्पत्तिस्वीकारेऽपि सत्त्वांशेऽन्यथाख्यातिभिया सत्वान्तरोत्पत्तिरेव युक्ताऽभ्युपगन्तुम् । तथा च खयमसति तत्रोत्पद्यमाना सत्ता स्वसंबन्धोत्पत्तिमपेक्षते; सोऽपि स्वसंबन्धान्तरोत्पत्तिमित्यनवस्था। सत्स्वभावस्य च तस्य सत्यरजतवदुत्पत्तौ किमनिर्वचनीयत्वम् ? । खानुपादाने समुत्पन्नत्वात् तत्त्वं चेत् । अहो ! व्याहताभिधायी देवानांप्रियः, यद् भावकार्य स्वानुपादानोत्पन्नमङ्गीकुरुषे । अत्र प्रसिद्धोपादानत्यागादयं विशेषश्चेत् । उपादानत्वाविशेषे कः प्रसिद्ध्यसिद्धिकृतो विशेषः । किञ्च, एवं दण्ड-घटादौ दान-स्वर्गादौ च लोक-शाखपसिद्धः कार्यकारणभावो भज्यते, भज्येत च कार्यात् कारणानुमानम् , कारणाच कार्यानुमानादिकम् , अनिर्वचनीये व्यभिचारात् । विलक्षणदण्डत्वघटत्व-दानवस्वर्गत्वादिना कार्यकारणभावे चातिगौरवम्-वेदादौ दान-स्वर्गादिपदानां सामान्यतो दानत्व-स्वर्गत्वाचवच्छिन्नोपस्थापकानां विलक्षणदानत्वस्वर्गवाद्युपस्थितये लक्षणापत्तिः, नानार्थत्वे च दानादिपदानां प्रतिपदं तात्पर्यग्रहाय प्रकरणाद्यपेक्षापत्तिः। किञ्च, एवं बाधेऽपि व्यवहारापत्तिः, अनिर्वाच्यरजताभावज्ञानेऽपि रजतसामान्याभेदभ्रमानिवृत्ते रजतविशेषस्य 'इदं रजतम्' इति भ्रमविपयत्वे तद्रजतभ्रमेऽपि 'इदं रजतम्' इत्युल्लेखापत्तेः। किञ्च, एवमिदंवृत्त्या चैत्रापरोक्षे इदमंशे उत्पन्नं रजतं तया तत्र मैत्रा-
काही
॥२९७।।
For Private & Personal Use Only
Join Education in
OMww.jainelibrary.org