________________
प्रपश्चप्रतिभासस्य मुक्तावभावात । तस्यात्मविशेषादर्शनजन्यत्वेन भ्रान्तत्वात प्रपश्चस्यासत्चमित्यपि न रमणीयम् , मुक्ती विषयास्फुरणे ज्ञानस्यैवाभावप्रसङ्गात् , सविषयस्यैव ज्ञानस्य दृष्टत्वात् , निर्विषयस्य तस्य कल्पनायां दृष्टविपरीतकल्पनाप्रसङ्गात् । अत एव "सर्वविषयत्वं ब्रह्मणः काल्पनिकतादात्म्याश्रयणेन" इत्यपि निरस्तम्, सर्वविषयताया ज्ञानत्ववद् मुक्तज्ञानस्वभावत्वात् । सर्वापेक्षा सर्व विषयता न तत्स्वभावेति चेत् । सर्वापेक्षं सर्वभिन्नत्वमपि न तत्स्वभाव इति कुतोद्वैतसिद्धिः । क्लुप्तसर्वतादात्म्याभाव एव सर्व भिन्नत्वमिति चेत् । संसारेऽपि तदबाधितमिति नित्यमुक्ततापातः।।
किञ्च, काल्पनिकसर्वतादात्म्येन सर्वज्ञत्वे रथ्यापुरुषस्यापि सर्वज्ञत्वाभिमानिनस्तव योगितुल्यत्वं स्यात् । योग्यऽयोगिवृत्तिविशेषोऽपि स्वभावभेदं विना दुर्वचः । मिथ्यास्वभावविशेषाद् विशेष इति तु 'मिथ्या च स्वभावश्च' इत्यत्यन्तव्याहतम् । एतेन "रज्जौ सर्प इव सत्चासत्त्वाभ्यामनिर्वचनीयत्वाद् मिथ्या प्रपञ्चः" इति निरस्तम्, भ्रान्तिविषयत्वातिरिक्तस्य मिथ्यात्वस्याननुभवात् । "मिथ्यार्थानङ्गीकारे मिथ्याज्ञानस्याप्यङ्गीकर्तुमशक्यत्वे प्राभाकरो न निराक्रियेत" इति तु मन्दमलपितम् , मिथ्याज्ञानस्थलीयप्रवृत्त्यन्यथानुपपत्त्यैव तन्निराकरणादित्यन्यत्र विस्तरः। यदि च ज्ञानगतं मिथ्यात्वं साक्षादेवार्थेऽङ्गीक्रियते, तदा ज्ञानविषयसंकरः स्यात्, रजतज्ञानस्यार्थमिथ्यात्वं निमित्तमिथ्यात्वे च मिथ्यारजतमनुभूतमिति बाधेऽपि मिथ्यात्वं स्यादिति भ्रान्त-भ्रान्तिज्ञसंकर इति न किञ्चिदेतत् ।
साभावसामानाधिकरण्यरूपं मिथ्यात्वं तु घटेऽपि तुल्यम् , स्वाधिकरणेऽपि परापेक्षया स्वाभावात । सर्वथा स्वाभावसामानाधिकरण्यं तु विरुद्धमेव, गन्ध-रूपयोरपि स्वभावभेदमपेक्ष्यैव सामानाधिकरण्यात् , घ्राणग्राह्य तानियतगन्धस्वभावेन
RADES
Jain Education In
onal
For Private & Personel Use Only
Malwww.jainelibrary.org