________________
शास्त्रवाती समुच्चयः
॥२९६ ॥
Jain Education I
एतेन "आहुर्विधातृ प्रत्यक्षम् " इत्यादि निरस्तम्: विधातृत्वं हि भावस्वरूपग्राहित्वमिति प्रतिनियतार्थप्रतिभासादेव भेदग्रहणाविरोधात् । भिन्नत्वेन ग्रहणं त्वभिन्नत्वेनेव परापेक्षमौत्तरकालिकं न विशेत्स्यते । एतेन च ' इतरेतराभावरूपत्वाद् न भेदः प्रत्यक्षविषयः' इत्यप्यपास्तम् भाव स्वरूपग्रहणे तत्प्रतिभासनात् । वस्तुनो देश- कालादिभेदाद् भेदेऽनवस्थाद्यभिधानं त्वभेदेऽपि समानम्, एकस्य व्यात्मकत्वायोगादन्यतर मिध्यात्वावश्यकत्वे भेदानामेव मिथ्यात्वमिति तु विषरीतम्, नानाभेदानां मिथ्यात्व कल्पनापेक्षयैकस्याभेदस्यैव तत्कल्पनौचित्यात्; अन्यथा सर्वत्र सन्मात्राभेदनिश्चये कालभेदाभावेन 'सोऽयम्' इत्यवमर्शाभावेऽपि तद्भेदे घट-पटयोः 'सोऽयम्' इत्यवमर्शप्रसङ्गात् । न च देशान्तरस्थघटादिभेदानुगतत्वात् सद्रूपतायाः पारमार्थिकत्वम् भेदानां तु प्रच्यवाद् न तथात्वमिति, तत्मच्युतिं परिगतस्यानुगतत्वस्य तदभा मानात् प्रातिभासिकस्यानुगतत्वस्योभयत्र तुल्यत्वात् प्रत्यभिज्ञानादपि नान्ययि सद्रूपत्वम्, तन्निरासात्, इत्यादि वदता पर्यायास्तिकनयानुसारिणा गले गृहीतः कांदिशीक: कां दिशमनुसरेत् ? ।
किञ्च, सद्रूपत्वं ज्ञाने घटादिना सहानुभूयते, तत्र प्रमाणत्वेन ज्ञानस्यैव सच्चायले विषयं विना ज्ञानस्वरूपाप्रतिभासनाद् विषयं एव सत्त्वं किं नोपेयते । ज्ञानस्य सर्वत्रानुगतत्वेन स्वसत्तास्फोरकत्वे विषयस्यापि सामान्यतस्तथात्वेन तस्य सुवचत्वात् नीलाद्याकारणाननुगतत्वस्य चोभयत्र तुल्यत्वात् । एवं विषयं विनाऽभासमानस्य ज्ञानस्योपाधिभेदं विना विभाव्यमानभेदत्वकल्पनेऽपि विषये तथाकल्पनं सुवचम् । प्रतीतिपरित्यागेन लाघवानुरोधे तु निराश्रयमेव सच्चं कल्प्यताम्, १ सप्तम्यन्तम् । २ सर्वत्रानुगतत्वेन । ३ विषयसत्तास्फोरकत्वस्य ।
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ ८ ॥
॥२९६ ॥
www.jainelibrary.org