________________
अत्रापि- अद्वैतपक्षे, अन्ये- वादिनः, वदन्ति यदुत- अविद्या न, सतः- ब्रह्मणः, पृथक- तत्त्वान्तरम् , द्वैतापत्तेः । तच- सच्च, तन्मात्रमेव-सन्मात्रमेव, इति हेतोः, भेदाभासः-भेदाध्यवसायः, अनिवन्धनः- जनकविषयाभावादकारणः॥४॥
पराशयं परिहरतिसैवाथाभेदरूपापि भेदाभासनिबन्धनम। प्रमाणमन्तरेणेतदवगन्तुं न शक्यते ॥५॥
अथ सैव-- अविद्या, अभेदरूपापि-सन्मात्राभिन्नापि, भेदाभासनिबन्धनम्- अविद्यमाननीलादिप्रतिभासकारणम् । एतत्- परोक्तम् , प्रमाणमन्तरेण- एतदर्थनिश्चायकप्रमाणं विना, अवगन्तुं न शक्यते, प्रमेयव्यवस्थितेः प्रमाणाधीनत्वात् ॥५॥
__ तद्भावा-ऽभावयोरुभयतो दोपमाहभावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः। ननु नाद्वैतमेवेति तदभावेऽप्रमाणकम् ॥६॥
___भावेऽपि च- उपगमेऽपि च, प्रमाणस्य- उक्तार्थनिश्चायकस्य, प्रमेयव्यतिरेकतः- तस्य प्रमेयभिन्नत्वाद् हेतोः, ननुनिश्चितम् , अद्वैतमेवेति न, प्रमाण-प्रमेयद्वैविध्यव्यवस्थानात् । तदभावे-प्रमाणानभ्युपगमे, अप्रमाणकमद्वैततत्त्वम् , तथा च को नाम विनोन्मत्तं श्रद्दधीत? ॥ ६॥
नन्वयमनुक्तोपालम्भः, अविद्यायाः पृथक्त्वस्य, प्रमाण-प्रमेयादिविभागेन व्यावहारिकभेदस्य च प्रागुक्तरीत्याऽभ्युपगमादेव ; परमार्थतस्तु 'तत्वमसि' इत्यादिनोक्तमखण्डमेव सत् , इत्यत आह
For Private & Personal Use Only
Jain Education Interional
www.jainelibrary.org