________________
स्तवकः।
शास्त्रवार्ता विद्या-ऽविद्यादिभेदाच्च स्वतन्त्रेणैव बाध्यते। तत्संशयादियोगाच्च प्रतीत्या च विचिन्त्यताम्॥
सटीकः । समुच्चयः। विद्या-ऽविद्यादिभेदाच्च, स्वतन्त्रेणैव- स्वाभ्युपगतप्रामाण्येन शाखणैव, बाध्यतेऽद्वैतम् ; तथाहि-"विद्या चाविद्यां च ॥२९५
यस्तद्वेदोभयं सहाविद्यया मृत्यु ती विद्ययाऽमृतमश्नुते" इति श्रुतौ विद्या-विद्ययोरमृताप्ति-मृत्युतरणफलयोः स्फुटमेवोक्तो भेदः, स चाद्वैतेन विरुध्यते । नन्वत्राविद्यया श्रवणादिलक्षणया मृत्युं तीवोऽविद्यामेव निवर्त्य विद्ययोपलक्षितममृतमश्नुते, स्फटिकमणिरिवोपाधित्यागादन्तरेण प्रयत्नान्तरं स्वरूपेऽवतिष्ठत इत्यर्थः । अविद्ययैवाविद्यानिवृत्तिश्च यथा पयः पयो जरयति, स्वयं च जीर्यति, यथा विषं विषान्तरं शामयति, स्वयं च शाम्यति, यथा वा कतकक्षोदादिरजो रजोन्तराणि संहरत् स्वयमपि संहृतं भवति तथेति । न चासत्याद् न किश्चित् कार्यम् , मायायाः, प्रीतेः, भयस्य, रेखाङ्कादेश्च सत्यमतिपत्तेर्दर्शनात , इत्यत आह-तरसंशयादियोगाचेति, किमत्रोक्तार्थेन 'तत्वमसि' आयुक्ताद्वैताबाधा, उत विद्या-ऽविद्यापदार्थाभ्यां ज्ञानकर्मभ्यामतिरिक्तमुक्तिसाधनत्वबोधात् तद्वाधः? इति संशयात् । एवं "द्वे ब्रह्मणी वेदितव्ये परं चापरं च" इत्यायुक्तो भेदः सत्यः, उत प्रागुक्तोऽभेदः? इति संशयः, तथा “परं चापरं च ब्रह्म यदोङ्कारः" इत्याधुक्तं शब्दब्रह्माद्वैतम् , मागुक्तं न निर्गुणब्रह्माद्वयं पा? इत्यपि ।
न च "परंच." इत्यादाघुपासनार्थ सामानाधिकरण्यम् , निर्गुणब्रह्मण उपासितुमशक्यत्वात् , एतदालम्बने "ब्रह्मोपासिFor तव्यम्" इति प्रतीकोपदेशात् , यथा देवतायाः साक्षात् पूजाया असंभवात् तल्लाञ्छने दारुण्यश्मनि वा पूजाविधानं तबु- ॥२९५।।
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org