________________
शास्त्रवार्तासमुच्चयः । ॥२९४॥
तस्य प्रतिक्षणवर्तिक्षुवादिदुःख बहुलत्वात् ? । तस्मात् सर्वेषां संचितानां नाशात् सप्तजन्मप्रदस्याप्यन्तिमतत्त्वबोधनाज्ञानतत्कार्यवृत्त निवृत्तिरिति न तस्य देहान्तरम् । इन्द्रादीनां तु ज्ञानिनां देहान्तरम्, प्रारब्धेनैव तन्नाशाभावात् । न च प्रकृतेऽपि तथा, उत्पन्नज्ञानस्य प्रतिक्षणभोगप्रदतत्तत्कर्मणां मारब्धत्वे मानाभावात् इन्द्रादीनां तु देहश्रवणस्यैव मानत्वात्, देहान्तरस्य तादृक्सामर्थ्यस्य कल्पने गौरवाच्च ।
aar ज्ञानदेहारम्भकेनेकजन्मप्रदेष्वनकेषु सुकृत- दुष्कृतेषु सत्स्वपि न जन्मान्तरमेतस्य सुवचम् सति देहे देहान्तरायोगात् । तन्नाशानन्तरं तदुपगमे च “यं यं चापि स्मरन् भावम्” इति स्मृतेर्देहान्तरविषयान्तिमत्ययस्यावश्यकत्वाज्ज्ञानिनामपि तदापातात् । ततः प्रायणकाले उत्पादितदेहान्तरविषयान्तिमप्रत्ययत्वं प्रारब्धत्वम् इति ज्ञानिदेहारम्भकाणां तज्जन्मभोग प्रदत्वावच्छेदेनैव प्रारब्धत्वात् तज्जन्मभोग समाप्तावज्ञाननिवृत्तेर्न देहान्तरम्, न चेदेवम्, उत्क्रमणस्यावश्यकत्वाद् 'न तस्य प्राणा उत्क्रामन्ति' इति श्रुतिसंकोचः । इति न ज्ञानिनो जन्मान्तरम्, किन्तु प्रारब्धक्षयेऽज्ञाननिवृत्तौ चिन्मात्रमेवावशिष्यत इति ।
अयं वेदान्तिनां सर्वः संप्रदायो निरूपितः । स्वैरं यत्राग्रहग्रस्ताः पतन्त्येते तपखिनः ॥ १ ॥ ३ ॥ एतन्निराकरणवातार्माह
अत्राप्यन्ये वदन्त्येवमविद्या न सतः पृथक् । तच्च तन्मात्रमेवेति भेदाभासोऽनिबन्धनः॥४॥
Jain Education International
For Private & Personal Use Only
popperdopoccncc8:
सटीकः । स्तवकः ।
॥ ८ ॥
॥२९४॥
www.jainelibrary.org