SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ TRE मन्तरेण भेदभ्रमानिवृतेश्च । न हि सः' इति 'अयम्' इति च देवदत्तस्वरूपमात्रविवक्षया प्रयुक्तपदजन्यबोधाद् भेदभ्रमनिवृत्तिः, 'सोऽयम्' इति वाक्याच्च भवति सेति । तदिदमात्मज्ञानमुत्पन्नमात्रमेवानन्तजन्मार्जितकर्मराशिं विनाशयति, "क्षीयन्ते चास्य कर्माणि" इति श्रुतेः । तेन कमक्षयार्थं न कायव्यूहकल्पना, 'स एकथा भवति' 'स त्रेधा' इत्यादिवाक्यानामुपासकविषयत्वात् । न च देहनाशप्रसङ्गः, प्रारब्धप्रतिबन्धात् तस्य, न चेदेवम् , चिरयावद् न विमोक्षः; 'अथ संपत्स्ये' इति श्रुत्या कर्मविपाकेन प्रारब्धनिवृत्तावपि तस्य - ज्ञानानिवर्त्यत्वाभिधानात् । तस्यां चावस्थायां प्रारब्धफलं भुञ्जानः सकलसंसारं बाधितानुवृत्त्या पश्यन् वात्मारामो विधिनिषेधाधिकारशून्यः संस्कारमात्रात् सदाचारः प्रारब्धक्षयं प्रतीक्षमाणो 'जीवन्मुक्तः' इत्युच्यते । अस्य च प्रारब्धतो जन्मान्तरमपि । अत एव सप्तजन्मविप्रन्वपदे कर्मणि प्रारब्धे उत्पन्नतत्त्वज्ञानस्य पुनर्देहान्तरं. प्रारब्धस्य ज्ञानानाश्यत्वादिति केचित् । संप्रदायस्तु- नैवम् , कर्म हि नैकमेव प्रारब्धतां भजते, एकेन कर्मणा भोजनादिक्षुधादिजन्यसुख-दुःखभोगानुपपत्तेः ।। HD भोजनादिजन्यसुखादेर्न कर्मजन्यत्वम् , स्वाभाविकत्वात्' इति तु न युक्तम् , दृष्टहेतुनिष्पादनेनैन कर्मणां सुखादिहेतुत्वात् , कर्मविशेषाभावादेव भोजनाद्यभावे सुखाभावात् । तस्मात् तत्तत्क्षणवर्तिबहल्पसुख-दुःखहेतुगुरुलघुकर्मणामनेकेषां प्रायणकालोबुद्धवृत्तिकानां प्रारब्धता वाच्या । इत्युत्पन्नज्ञानस्य देहान्तरस्वीकारे ज्ञानोत्पादकदेहनाशकाल एव कर्मणां प्रारब्धतापत्तेः प्राक् संचितावस्थानां तेषां ज्ञानेन नाशाभावे संचितकर्मनाशकताबोधकोक्तश्रुतिबाधः । नाशे वा कथं मनुष्यदेहान्तरोत्पत्तिः, १ क. 'द् भ्र'। २ ख. ग. घ. 'कार्यव्यू'। Jain Education a ntina For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy