________________
शाखवातासमुच्चयः ॥२९३॥
सासारासस
सटीकः। स्तबकः। ॥८॥
प्रधानाज्ञानप्रतिविम्बितं चैतन्यम्' इत्यन्ये । 'जीवनिष्ठाज्ञानविषयभूतं चैतन्यम्' इत्यपरे । उक्तार्थयोश्च तत्-त्वंपदयोरत्र सामानाधिकरण्यं न 'सिंहो देवदत्तः' इतिवद् गौणम् , मुख्ये संभवति तस्यान्याय्यत्वात् । नापि 'मनो ब्रह्म' इतिवदुपास नार्थम् , श्रुतहान्य-ऽश्रुतकल्पनापत्तेः । मुख्यत्वेऽपि न नीलोत्पलादिस्थानीयम् , गुण-गुणिभावाद्यसंभवात् , 'निर्गुणाऽस्थूलआदिवचनविरोधाच्च । नापि 'यः सर्पः स रज्जुः' इतिवद् बाधीयम् , उभयोश्चिद्रूपतया बाधायोगात् । तस्मात् पदार्थयोः परस्परभेदव्यावर्तकतया विशेषण-विशेष्यभावप्रत्ययानन्तरं लक्षणया 'सोऽयं देवदत्तः' इतिवद् विशुद्धप्रत्यगभिन्नाखण्डपरमात्मप्रतीतिः।
सा च लक्षणा पदद्वयेऽपि विशेषणांशत्यागेन चिन्मात्रे स्ववाच्यैकदेशे, अन्यथाऽखण्डार्थप्रतीत्यनुपपत्तेः, लक्षणावीजविरो. धसमाधानाच्च । इयमेव जहदजहल्लक्षणा, भागलक्षणा च गीयते । न चाभेदान्वयिचैतन्यांशोपस्थितिरपि शक्त्यैव, वैशिष्टयांशस्य त्वनुपपत्त्याऽनन्वय इति न लक्षणायाः प्रयोजनमिति वाच्यम्: जीवत्वे-श्वरत्वाभ्यामुपस्थितयोरभेदान्वयासंभवाद् विशेपांशमात्रोपस्थित्यर्थं तदादरात् । न च शक्तिजन्ययैवोपस्थित्या विरुद्धप्रकारांशपर्युदासेनान्वयः, 'गौर्नित्यः' इत्यादावपि भागलक्षणोच्छेदात् । तत्र विशेषणत्वेनोपस्थितस्य न नित्यत्वान्वययोग्यता चेत् । अत्रापि जीवत्वे-श्वरत्वाभ्यामुपस्थितयो - भेदान्वययोग्यतेति तुल्यम् । 'गोत्वं नित्यम्' इति बोधानुरोधात् तत्र विशेष्यतयोपस्थित्यर्थ लक्षणादर इति चेत् । अत्रापि विशेष्यतयोपस्थितयोविशेष्यांशयोरभेदः संसर्गविधया भायात् , इष्टं चाखण्डार्थत्वम् , इति लक्षणयैव शुद्धवस्तूपस्थितिः । अत एव निर्विकल्पको वाक्यार्थबोधः, पदार्थस्यैव वाक्यार्थत्वात् । न च वाक्यवैयर्यम् , पदस्याप्रामाण्यात् , वाक्योत्थबोध-
॥२९३॥
Jain Education
Viana
For Private & Personal Use Only
HOMwww.jainelibrary.org