________________
Jain Education
सन्न्यासः श्रवणार्थ एवेति । ततश्च सिद्धं साधनचतुष्टयसंपन्नः श्रवणाधिकारी श्रोत्रियं ब्रह्मनिष्ठं गुरुमनुसृतः श्रवणादि संपादयति । श्रवणादिकं तु श्रवण, मननम्, निदिध्यासनं चेति । श्रवणं नाम वेदान्तानां शक्तितात्पर्यावधारणानुकूलो व्यापारः । श्रुतस्यार्थस्य युक्तितोऽनुसंधानं मननम् । विजातीयमत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणं निदिध्यासनम् । एतेषां श्रवणं प्रधानम्, इतरे फलोपकार्य, श्रोतव्यादिवाक्येषु प्राथमिकत्वात् श्रवणविधेरेवार्थवादिकफलकल्पनयेतर योस्तत्कल्पनाक्लेशनिवृत्तेः । श्रवणस्यं तत्रज्ञाने प्रधानभूत शब्दप्रमाणस्वरूप निर्वाहकतया प्राधान्यम्, अत्यन्तावतगार्थे गृहीतशक्तितात्पर्यस्यैव शब्दस्य प्रमाणत्वात् ।
ये तु श्रवणादिषु विधिरेव नास्तीति, मननस्यैव च तत्रज्ञानोत्पत्तिं मन्यन्तेः तेषां निदिध्यासनस्य मनःसहकारितया, श्रवणादेव तदर्थतया न श्रवणे प्राधान्यादादरः । विधिवत्र नियम एव निर्विशेषात्मवोधेऽपि पुराणप्राकृतवाक्यश्रवणादेः मासत्वात् वेदान्तश्रवणस्य नियमनात् । संभवति हि शूद्रादेः शमादिसंपन्नस्य पुराणश्रवणादिना तत्त्वबोधः । ब्राह्मणस्य तु न वेदान्तपरित्यागेन पुराणश्रवणमिति नियमविधेः फलम् । एतच्च श्रवणाद्यावृत्तं तवधीहेतुः दृष्टार्थत्वात् । एवं बहुजन्म लब्धपरिपाकवशादसौ 'तत्त्वमसि' आदिवाक्यार्थं विशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात् कुरुते ।
पदार्थः प्रसिद्ध एव संबोध्यो जीवः, तत्पदार्थश्रेश्वरः । स च 'विश्वचैतन्यम्' इति केचित् । 'विक्षेपशक्ति
१ ख. ग. घ. च. 'स्य तस्य त' ।
tional
For Private & Personal Use Only
polo
Sapphooooooo०००००
www.jainelibrary.org