SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ Jain Education सन्न्यासः श्रवणार्थ एवेति । ततश्च सिद्धं साधनचतुष्टयसंपन्नः श्रवणाधिकारी श्रोत्रियं ब्रह्मनिष्ठं गुरुमनुसृतः श्रवणादि संपादयति । श्रवणादिकं तु श्रवण, मननम्, निदिध्यासनं चेति । श्रवणं नाम वेदान्तानां शक्तितात्पर्यावधारणानुकूलो व्यापारः । श्रुतस्यार्थस्य युक्तितोऽनुसंधानं मननम् । विजातीयमत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणं निदिध्यासनम् । एतेषां श्रवणं प्रधानम्, इतरे फलोपकार्य, श्रोतव्यादिवाक्येषु प्राथमिकत्वात् श्रवणविधेरेवार्थवादिकफलकल्पनयेतर योस्तत्कल्पनाक्लेशनिवृत्तेः । श्रवणस्यं तत्रज्ञाने प्रधानभूत शब्दप्रमाणस्वरूप निर्वाहकतया प्राधान्यम्, अत्यन्तावतगार्थे गृहीतशक्तितात्पर्यस्यैव शब्दस्य प्रमाणत्वात् । ये तु श्रवणादिषु विधिरेव नास्तीति, मननस्यैव च तत्रज्ञानोत्पत्तिं मन्यन्तेः तेषां निदिध्यासनस्य मनःसहकारितया, श्रवणादेव तदर्थतया न श्रवणे प्राधान्यादादरः । विधिवत्र नियम एव निर्विशेषात्मवोधेऽपि पुराणप्राकृतवाक्यश्रवणादेः मासत्वात् वेदान्तश्रवणस्य नियमनात् । संभवति हि शूद्रादेः शमादिसंपन्नस्य पुराणश्रवणादिना तत्त्वबोधः । ब्राह्मणस्य तु न वेदान्तपरित्यागेन पुराणश्रवणमिति नियमविधेः फलम् । एतच्च श्रवणाद्यावृत्तं तवधीहेतुः दृष्टार्थत्वात् । एवं बहुजन्म लब्धपरिपाकवशादसौ 'तत्त्वमसि' आदिवाक्यार्थं विशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात् कुरुते । पदार्थः प्रसिद्ध एव संबोध्यो जीवः, तत्पदार्थश्रेश्वरः । स च 'विश्वचैतन्यम्' इति केचित् । 'विक्षेपशक्ति १ ख. ग. घ. च. 'स्य तस्य त' । tional For Private & Personal Use Only polo Sapphooooooo००००० www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy