SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः । ॥२९२ ॥ Jain Education te यथाशक्तिन्यायेनैव सिद्धेः । यदि च विरक्तस्याधिकारिणस्तत्फलकामस्य सन्न्यासविधायकम्, तदाङ्गवाक्यपयालोचनयाङ्गेषु समर्थ प्रत्येवोक्तवाक्यप्रवृत्तिः । न ह्यङ्गेष्वसमर्थ प्रति स्वर्गकामाग्निहोत्रवाक्यं प्रवर्तते, अङ्गविकलस्याप्यधिकारापच्या तिर्यगधिकरणविरोधात् । तथा च प्रकृतेऽप्यङ्गासमर्थमातुरं प्रति 'प्रव्रजेत्' इति पूर्ववाक्यस्याङ्गवाक्यैकवाक्यतापन्नस्याप्रवृत्तेर्यथा (या) तुर इति वाच्यमङ्गासमर्थस्यातुरपदवाच्यस्य सन्न्यासकर्तव्यताविधायकं तद्विधिसामर्थ्यादेव चाङ्गाभावः । न ह्येतावता स एव सन्न्यास आतुरस्य विधीयते, 'वाचा मनसा वा' इत्यस्यापि विधेयस्य दर्शनात् । न चार्थमाप्तानुवादः, अर्थमात्यपेक्षया श्रुतेः प्रवृत्तत्वात् इति प्राप्ते सन्न्यासेऽनेकविधानस्याशक्यत्वात् सन्न्यासान्तरं विधीयते । तस्य चातुरत्वसामर्थ्यविरोधाद् न प्रकरणेन वाक्येन वा श्रवणसंबन्ध इति फलाकाङ्क्षायां पापक्षयः फलं कल्प्यते, “सन्न्यासेन द्विजन्मनाम्' इत्यादिस्मृतेः । यदि तु सन्न्यासं कृत्वा जीवितस्तदा श्रवणाधिकारिविशेषणत्वबोधक वाक्य प्रकरणवाधकं सामर्थ्यमपगतम्, इत्यधिकारिविशेषणत्वमेव सन्न्यासस्य भवति । ब्रह्मलोकादिगमनं तु न सन्न्यासफलम्, 'सन्न्यासाद् ब्रह्मण: स्थानम्' इत्यादेर्ब्रह्मलोकान्ते भोगविरक्तसन्न्यासविषयत्वात् 'माप्य पुण्यकृतान्' इत्यायुक्तस्य सन्न्यासपूर्वकानुष्ठितश्रवणादिसामर्थ्याबुद्धपूर्व शुभ कर्मफलत्वात् । अत एव तदभावे " अथवा योगिनामेव कुले भवति धीमताम्" इत्युक्तेरातुरस्यापि सर्वतो विरक्तस्य तुल्यन्यायतया कदाचित् तत्सामर्थ्योबुद्धपूर्व शुभकर्मफलानि भुक्त्वा पुनर्जातस्य श्रवणादिना शीघ्रमुक्तिरेवः यथाश्रवणार्थसन्न्यासिनो दैवादर्वाक् श्रवणाद् मृतस्य नान्तरीयकफलाङ्गीकारे च सन्न्यासानां वैराग्यात् प्रकृतौ लय इत्यस्यापि प्रसङ्गात्, परिपकयोगस्यापि तत्प्रसङ्गाच्च । तत् सिद्धं ational For Private & Personal Use Only सटीकः । स्तबकः । ॥ ८ ॥ ॥२९२॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy