________________
ते ब्रह्मलोके नु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ॥१॥" इति श्रुतेर्दग्धरथन्यायनातुरसन्यासविषयत्वम् । न हि परिपकयोगस्य तत्र गमनम् । नापि 'प्राप्य पुण्यकृतान्' इत्यादेरातुरसन्न्यासविषयत्वम् , 'योगाचलितमानसः' इत्यादिनोपक्रान्तश्रवणादिविषयत्वेन प्रतीतेः । नापि कृतपापसन्न्यासिविषयत्वम् , कल्याणाभिधानात् । तस्मात् साधनसंपन्नस्योत्पन्नश्रवणादिप्रत्ययस्यापरिपक्वस्य 'प्राप्य पुण्यकृतान्' इत्यादिवचनविषयत्वम् , आतुरस्य शमाद्यसंपन्नस्याकृतश्रवणत्वेनानुत्पन्नप्रत्ययस्य 'वेदान्तविज्ञान-' इत्यादिवचनविषयत्वम् । परिपक्कयोगस्य तु नोभयविषयत्वमिति 'वेदान्त-' इत्यादिश्रुतेनिगुणब्रह्मविषयत्वेन व्याख्यानेऽपि
“सन्यस्तमिति यो ब्रूयात् प्राणैः कण्ठगतैरपि । सोऽक्षयाँल्लभते भोगान् पुनर्जन्म न विद्यते ॥१॥"
इत्यादिस्मृत्याऽऽतुरसन्न्यासिनो ब्रह्मलोकं गतस्य तत्रोपदेशे सत्युत्पन्नज्ञानस्य मुक्तिः, इत्युपदेशद्वारा मुक्तिसाधनब्रह्मलोकगमनकाम आतुरः सन्न्यसेदिति विधिविपरिणम्यत' इति ।
अपरे तु- 'यदहरेव विरजेत् तदहरेव प्रवजेत्' इति वाक्यं 'यस्याहिताग्नेहानग्निदहेत सोऽयये क्षामवतेऽष्टाकपालं | निर्वपेत्' इतिवद् यदि वैराग्यनिमित्ते सन्न्यासविधायकम् , तदा निमित्ते विधानादेवाङ्गेष्व समर्थस्यातुरस्य निरङ्गसन्न्यासप्राप्तेः | 'यद्यातुर-' इत्यादेर्व्यर्थत्वाप(त्तेः)तिः। न हि यावज्जीवनिमित्ते विहितस्याग्निहोत्रस्यासमर्थ प्रत्यङ्गाभावबोधकं वचनान्तरमपेक्षितम् ,
Jain Educational national
For Private & Personel Use Only
www.jainelibrary.org