________________
FROM
शास्त्रवार्ता- समुच्चयः ॥२९॥
सटीकः। स्तवकः। ॥८॥
निश्चयात् । गृहस्थानामपि श्रवणं श्रूयत इति चेत् । न, 'वेदानिमम्' इत्यादिविधिविरोधेऽर्थवादलिङ्गस्य वाच्यत्वात् , 'ब्राह्मणो यजेत' इत्यादिविधिविरोध इव देवानां यागादिश्रवणे जनकस्य श्रूयत इति श्रद्धावन्तो मैत्रेय्याः 'श्रूयते' इति स्त्रीणामप्यधिकारं कल्पयेयुः । तस्मात् सन्न्यासिन एवाधिकारः । गृहस्थस्य तु प्रवृत्तस्य दृष्टार्थत्वात् श्रवणस्य प्रमाणसंभावनाददृष्टं निष्पद्यत एव । नियमादृष्टं तु नोत्पद्यते, विधेरप्रवृत्तेः, यथा शूद्रानुष्ठितयागान्तर्गतावघातात ।
यच्चातुरसन्न्यासस्य ज्ञानार्थत्वमुक्तम् । तत्र 'यद्यातुर-' इत्यादिवाक्ये किं विधीयते ? । न तावत् सन्न्यासः, तस्य पूर्ववाक्यविहितत्वात् । नापिदशाविशेषे तद्विधानम् , अविरक्तस्य तदनधिकारात् , विरक्तस्यौतुरस्यापि पूर्ववाक्येनैव सन्यासमाप्तेः। नापि मनो-वाचोर्विधानम् . तयोरपि पूर्वतः प्राप्तः । नाप्यातुरे तद्विधानम् , अनातुरे तत्पापकेनैव प्राप्तेः । अथ प्राप्तपुनःसंकीर्तनमितराङ्गपरिसङ्घयार्थमित्यनेनेतराङ्गच्यावृत्तिः क्रियत इति चेत् । न, परिसङ्घयायास्त्रिदोषन्वात् । श्रुतहान्य-ऽश्रुतकल्पनाप्राप्तबाधास्त्रयो दोषाः । तस्मात् 'यद्यातुर' इत्याद्यभ्यासाधिकरणन्यायेन कर्मान्तरमेव विशिष्टं विधीयते । तस्य च न पूर्वसन्यासप्रकृतित्वम् , मानाभावात् । न च तत्पूर्वसन्न्यासफलेन फलवत् , चोदकप्रवृत्यभावात् । नापि पूर्वसन्न्यासवत् श्रवणाङ्गम् , आतुरत्वसामर्थ्यस्य बलवत्त्वात् ।। तदवश्यं फले कल्पनीये कोचिदाहुः
____“वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद् यतयः शुद्धसत्वाः। १ क. 'स्यापि'।
रचना म DIOCOCCHACDOIROHDADACPICASIONSCNICHAPACIDIOS
-TAMRAGHATAASARAISA
॥२९॥
Jain Education Inter
For Private & Personal Use Only
Miw.jainelibrary.org