________________
अत्राहुः-फलवत्वेन निर्णीतश्रवणसंनिधानफलस्य श्रुतत्वात् सन्यासस्य श्रवणाङ्गत्वम् , उपकार्योपकारकोभयाकासारूपस्यात्मप्रकरणान्यस्य प्रकरणस्याङ्गत्वावेदकत्वात् , प्रयाजादीनामिव । एवमप्यार्थवादिकफलकल्पने प्रयाजादीनामपि 'कर्म वैतद्यज्ञस्य' इत्यार्थवादिकफलकल्पनाप्रसङ्गात् । किञ्च, सन्न्यासस्य फलकल्पनेऽफलसबलान्यतराकाक्षाङ्गत्वकल्पने तूभयाकाझेति श्रुतिलिङ्गेत्यादिन्यायादुभयाकासारूपप्रकरणस्यान्यतराकासारूपस्थानाद् बलवत्त्वात् श्रवणाङ्गत्वमेव, फलश्रुतेरर्थवादस्वात् । ज्ञानात्वं तु न, प्रकरणावगतत्वात् श्रवणाङ्गत्वस्य शान्त इत्यादिवाक्ये दूषणाभावेन खार्थापरित्यागात् । कृतेऽपि खार्थपरित्यागे ज्ञानोद्देशेन सन्न्यास-श्रवणयोर्विधाने वाक्यभेदापरिहारात् , समुच्चयस्य द्वयानतिरेकेणैकसमुच्चयो विधीयत इत्यस्यापि दुर्वचत्वात् ।
वस्तुतोत्र ये मध्यमास्तानग्नये दात्र इत्यत्रेव सामानाधिकरण्यात् शान्तत्वादिविशिष्टैककर्तृविधानात् , जातपुत्र इत्यादाविव शाम्त्यादिपदोपलक्षितावस्थाविशेषविधानाद् वा पश्येदित्यत्र ज्ञानस्य विध्ययोगात् , प्रकृतेस्तत्साधनश्रवणलक्षकत्वात् , शान्त्यादिविशिष्टैकश्रवणक्रियाविधानात 'सोमेन यजेत' इतिवद् वा न वाक्यभेदः । जन्मान्तरीयतदुपयोगस्तु नानिष्टः, द्वारस्य निष्पन्नत्वात् । श्रवणाङ्गत्वे जन्मान्तरीयप्रयाजादिवद् न तदुपयोगः स्यादिति चेत् । न, अध्ययनादावदृष्टस्यापि अन्मा. न्तरोपकारकत्वस्य श्रवणादाविव प्रयाजादावदृष्टस्यापि तस्य तदङ्गसन्न्यासादावविरोधात् ।
न चैतावता गृहस्थस्यापि श्रवणाधिकारः, विवेकादिवत् सन्यासस्याप्यधिकाराविशेषणत्वात्, जन्मान्तरीयस्य च तस्याख. ग. च. झ. 'गा ।
SARDAR
Jain Education Personal
For Private Personel Use Only
www.jainelibrary.org