________________
BOSS
शास्त्रवार्ता- समुच्चयः। ॥२९॥
सटीकः । स्तबकः। ॥ ८ ॥
वेकैकशाखापर्यालोचितानां सर्ववेदान्तप्रत्ययन्यायबाधितत्वाद् न तथात्वमिति चेत् । न, सर्ववेदान्तमत्ययन्यायेन साधना- न्तरोपसंहारेऽपि तत्तच्छाखोपस्थितैकैकसाधनाबाधात् , इतरसाधनाभावस्य शब्दादनुपस्थिते, आर्थिकस्य तदसाधनताभावप्रत्ययस्य चानपायात् ।
नन्वेवं शान्तो दान्त उपरत इति पुरुषविशेषणत्वात् सन्न्यासोऽप्यधिकारिविशेषणं स्यात् । न चानङ्गभूतस्य तस्य तथात्वम् , विहितत्वात् । नाप्यङ्गभूतस्य तस्य, श्रवणाङ्गत्वे श्रुत्याधसत्त्वात् । न च प्रकरणात् तस्य तथात्वम् , आत्मनः प्रकरणात् संनिधानात्। तथा च वैपरीत्येऽप्यविनिगमात् , फलवत्त्वस्योभयत्राविशेषेण समप्राधान्यात् । किश्च, शान्तो दान्त इत्यादावुपरतिपदाभिधेयस्य सन्न्यासस्य शान्त्यादिपदोपस्थिततद्वत्कर्तृकविचारस्य च समुच्चयो विधीयते, अव्यभिचरितसंबन्धन जुहुपदेन क्रतूपस्थितिवच्छान्त्यादिपदैस्तद्वत्कनुकविचारोपस्थिते, अन्यथा ज्ञानस्य फलत्वेन विध्यगोचरत्वात् , ज्ञानोद्देशेन शान्त्यायनेकगुणविधाने वाक्यभेदप्रसङ्गात् , इति ज्ञानाङ्गत्वमेव सन्यासस्य । न च वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत्' इति वाक्यात् श्रवणाङ्गत्वम् , दर्श-पौर्णमासाभ्यामिष्ट्या सोमेन यजेतेतिवत् कालसंयोगपरत्वात् तस्य । अत एव जन्मान्तरीयोऽप्ययमुपयुज्यते, ज्ञानप्रतिबन्धकदुरितनिवृत्तिद्वारनिष्पत्तेः । अत एव जनकादीनामपि ज्ञानश्रवणम् , 'यद्यातुरः स्याद् मनसा वाचा च सन्यसेत्' इत्यापत्सन्न्यासविधानं च, स्वस्था-ऽऽतुरसन्न्यासयोरेककर्मत्वेऽप्येकत्राल्पाङ्गताया अन्यत्र सर्वाङ्गतायाश्चोपपत्तेः, नित्येषु शक्त्यपेक्षया तथात्वादिति चेत् ।
१ ख. ग. घ. च. झ. “स्व तथा'। २ क. 'स्य श्र' ।
Sarees
॥२९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org