________________
यदि वा 'जातः पुत्रः कृष्णकेशोऽनीनादधीत' इत्यत्राधाने जातपुत्रकृष्ण केशत्वविधाने वाक्यभेदात् ताभ्यामवस्थाविशेषलक्षणवदत्र यज्ञादिपदैः प्रसिद्धं कर्मसामान्यमुपलक्ष्य विविदिषादिफलोद्देशेन विधीयते । संभवति चैवं संभवत्समुच्चयः, न च वाक्यभेदः । लक्षणापि दोष एवेति चेत् । तथापि वाक्यार्थभेदे प्रधानविशिष्टवाक्यार्थभङ्गः, लक्षणायां तु गुणीभूतपदशक्यार्थत्यागमात्रम्, इत्यत्रादरः । अत एव 'अर्धमन्तर्वेदि मिनोति, अर्ध च बहिर्वेदि' इत्यत्रापि वाक्यभेदो मा भूदित्यन्तर्वेदि बहिर्वेदिशब्दाभ्यां देशविशेषलक्षणाश्रयणम्' इत्यपरे । यद्वा, ईश्वरार्पणबुद्ध्यानुष्ठितानां कर्मणामन्तःकरणशुद्धिः फलम्, 'यत् करोषि ' इत्यादिस्मृतेः । तत् सिद्धमेतत् कर्मभिः शुद्धान्तःकरणो नित्यानित्यविवेकादि लभत इति ।
1
तत्र नित्यानित्यविवेकः 'इदं सर्वमनित्यम्, एतस्याधिष्ठानं किञ्चिद् नित्यम्' इत्येवमालोचनात्मकः । तत ऐहिकपारलौकिकफलेच्छाविरोधिचेतोवृत्तिविशेषात्मको विरागः, ततः शमादिषट्कम् । तच्च शम-दमो परतितितिक्षा-समाधान - श्रद्धाः । अन्तःकरणनिग्रहः शमः। बाह्येन्द्रियनिग्रहो दमः । उपरतिः सन्न्यासः । द्वन्द्वसहिष्णुत्वं तितिक्षा । श्रवणादिभावण्यं समाधानम् । सांप्रदायिके विश्वासः श्रद्धा । ततो मोक्षेच्छा मुमुक्षा । तदेतत् साधनचतुष्टयं श्रवणाधिकारिविशेषणम् ।
यत्तु - 'मुमुक्षैवाधिकारिविशेषणम्, तस्या एव निरपेक्षाधिकारनिमित्तत्वात्' इति । तन्न, सामर्थ्यादेरप्यधिकार निपित्तत्वात् । अथ कामनार्थिकं सामर्थ्याद्यपेक्षते न श्रुतमन्यत्, तत् किं श्रुत-लिङ्गयोर्लिङ्गं बलवत् । तस्माद्' 'राजा राजसूयेन यजेत' इत्यादौ राजत्वादेरिव श्रुतस्य विवेकादेरप्यधिकारिविशेषणत्वं युक्तम्, मुमुक्षायाः सार्वत्रिकत्वात् तच्त्वंविवेकादीनां १ ख. ग. घ. च. 'द् राजस्' |
Jain Educatmational
For Private & Personal Use Only
www.jainelibrary.org