SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ हालTelete OURS सटीकः। शास्त्रवार्ता विशेषणविधानम् , उक्तहेतोरेव । यज्ञदानादीन्पुद्दिश्य विविदिषाफलसंबन्धविधाने एकत्वग्रहोद्देशेन संमार्गविधानवद् वाक्यभेदः, स्तबकः। समुच्चयः। विविदिपाफलं चोद्दिश्य यज्ञदानादिविधाने ग्रहोदेशेनैकत्वसंमार्गविधानवद् वाक्यभेदः।। ॥८॥ ॥२८९॥ 'दर्श-पौर्णमासाभ्यां स्वर्गकामो यजेत' इत्यत्रैकस्वर्णोद्देशेन दर्श-पौर्णमासात्मकानेकयागविधानवदत्र विविदिपोद्देशेन यज्ञदानाद्यनेकविधानं किं न स्यात् ? इति चेत् । न, तत्र 'बीहिभिर्यजेत' इत्यत्र व्रीहीणामिव षण्णामपि यागानां यज(ति?)नस मानाधिकरणैकपदोपात्तत्वेन वाक्यभेदाभावेऽपि प्रकृते 'यज्ञेन' 'दानन' इत्यादौ तदभावात् । तेनैकस्य श्रोतव्यादिवाक्यप्वनुKA पनवदेकस्य विविदिषन्तिपदस्यानुषङ्गः कल्प्यः- 'यज्ञेन विविदिपन्ति' 'दानेन विविदिपन्ति' इति ।। कथं तर्हि समुच्चयः ? इति चेत् । भिन्नवाक्यविहितानामपि सोमप्राप्त्यर्थानां क्रयाणामिव संभवत्समुच्चयो यज्ञादीनां नित्यवत्समुच्चये हि' क्रयाणां प्रत्येकविधिषु नियमविधित्वं न स्यात् । आर्थिकी हि तत्रेतरनिवृत्तिः, अरुणाक्रयेणैव सोमं भाव| येदिति । संभवत्समुच्चये तु सोमप्राप्त्यर्थत्वात् क्रयाणां तत्रानतिद्वारस्यैकेनैव सिद्धौ न नियमभङ्गः । असिद्धौ तु प्रत्येकावगतं नियम कार्यानुरोधेन परित्यज्य वाक्यान्तरविहितक्रयसापेक्षत्वं पूर्वक्रयस्य कलप्यते । अत एव दध्यादिषु नासो, होमनिष्पत्ते रस्यकेनैव सिद्धेः। एवमिहापि यज्ञादिनैकेनैवान्तःकरणशुद्धिद्वारसिद्धौ नान्यापेक्षा, अन्यथा तु स्यादेव । अत एव यज्ञानधिकारिणां ब्रह्मचारिणां वेदानुवचनेन केवलेनाप्यन्तःकरणशुद्धिद्वारा विविदिषासिद्धिः। तथा च स्मृतिः- "जपेनैव तु संसिध्येत्" इत्यादि । न च स्वर्गकामाग्निहोत्रवत् सदनुष्ठाननियमः, तदनुष्ठानस्य साधनचतुष्टयसंपत्तिगम्यान्तःकरणशुद्धिपर्यन्तत्वात् । E२८९॥ १ ज. हि क्रिया' । २ क. 'सत्तद' । Jain Education intomational For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy