________________
शास्त्रवार्ता- समुच्चयः। ॥२८॥
सटीकः। स्तबकः। ॥८ ॥
सहारा
वस्य चानुपस्थितस्यापि 'जलमहं जानामि' इति ज्ञानेऽवश्यं भानात् , प्रामाण्यनिश्चयेऽप्यनभ्यासादिदोषात् तत्संशयः। दृश्यते च काशीस्थस्याप्यामरिचप्रत्यक्षेऽसंभावनादोषात् तत्संशयः, तद्वदधीताद् वेदान्तवाक्यादब्रह्मबोधेनासंभावनादोषाद् युक्तः संशय इति । तदयमापातज्ञानवानिह जन्मनि जन्मातरे वाऽनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यादिविवेक लभते ।
ननु कथं कर्मणां तत्तत्फलसाधनानामन्तःकरणशुद्धिहेतुत्वम् ? इति चेत् । अत्र वदन्ति-नित्यानां तावत् कर्मणां पापक्षयहेतुत्वमावश्यकम् , ज्ञानाज्ञानकृतानां सर्वपापानां पुरुषेषु सत्त्वात् , तत्क्षयस्य सर्वदा सर्वाभीप्सितत्वात् , दुःखवत् पापस्थापि द्वेष्यतया तन्निवृत्तेः काम्यत्वात् , अहरहःकर्तव्येनावगतानां नित्यानां तेनैव फलवत्वात , स्वर्गादेर्नियतानुपस्थितिकत्वात् , प्रत्यवायप्रागभावस्य चासाध्यत्वादिति । तदुक्तम् - 'धर्मेण पापमपनुदति' इत्यादि। यद्वा, 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन' इत्यादिश्रुत्या तत्तत्फलसंयुक्तानामपि कर्मणां 'एकस्य तूभयत्वे संयोगपृथक्त्वम्' इति न्यायाद् विविदिपासंयोगस्य ज्ञानसंयोगस्य चा (वा) विधानात् ।
तत्रान्तःकरणशुद्धारत्वम् । न च प्रकरणान्तरे प्रयोजनान्यत्वमिति न्यायाद् तत्र प्रकरणान्तरमनुपादेयगुणश्च, यत्र मासमग्निहोत्रं जुहोति, आग्नेयं निर्वपेत् ऋद्धिकाम इत्यादाविव कर्मान्तरत्वनियमादत्रापि तत्प्राप्तिरिति वाच्यम्; यज्ञादिसंबन्धविधेरत्राश्रवणात् , प्रसिद्धानामाख्यातासमानाधिकरणव्यवहितपरामर्शसमर्थसुबन्तपरामृष्टानां कर्मणां फलसंबन्धमात्रविधा
१ज, 'बद्धवि'।
२८८॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org