________________
PARACETDCTED
“योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ १॥"
इति स्मृतेश्च । नन्वेवं स्वरूपत एव नित्यत्वमस्तु, तथाचाग्निहोत्रादिवत् काम्पत्वव्याघात इति चेत् । किमिदं स्वरूपनित्यत्वम् ? । यदि तावदवश्यकर्तव्यता, तदा तदुच्यत एव फलतः । अथाकरणे प्रत्यवायः, सोऽपीष्यत एव, अध्ययनाकरणे धर्मानवबोधेनोत्तरकर्माभावात् । अथ नैमित्तिकत्वम् । तदयुक्तम् , अग्निहोत्रादिवद् निमित्ताश्रवणात् , फलतो नित्यत्वेन ऋणश्रुत्याद्युपपत्तौ निमित्तकल्पनानवकाशात् । अत एवाध्ययनाकरणनिमित्तको न प्रत्यवायः। अथवा, तदकरणेऽपि प्रत्यवाय एव, विहिवस्याननुष्ठानात्' इत्यत्रावश्यकत्वेनानुगतीकृतयोः फलतो नित्य-नैमित्तिकयोर्विहितपदेनोपादानात् अर्थावबोधफलकत्वं तु प्रकृतस्वाध्यायविधेरयुक्तम् , श्रवणादिविधेः साधनचतुष्टयसंपन्नाधिकामत्वश्रवणात , अनन्तरदृष्टाहरहःकर्तव्यब्रह्मयज्ञाद्यर्थाचाप्लेरेव तत्फलत्वात् , 'स्वाध्यायोऽध्येतव्यः' इत्यत्राध्ययनसंस्कृतेन स्वाध्यायेनार्थावबोधं भावयदित्यर्थात् , संस्कारश्चावाप्तिः, इति श्रुतिपरित्यागायोगात् , क्षत्रियस्य निषादेष्ट्यादिवाक्याध्ययनेऽर्थावबोधस्य निष्पयोजनत्वेनावाप्तिफलत्वावश्यकत्वाचेति दिग्।
आपातता च वेदान्तवाक्यार्थावगमस्य निःसामान्यविशेषब्रह्मावधारणरूपस्यापि संशयाविरोधितव । यत्त्वेककोटिकानिश्चयरूपतैवाऽऽपाततेति । तन्न, अनिश्चयरूपस्यानेककोटिकत्वेन क्लुप्तत्वात् । अनिश्चयमपि किश्चिदेककोटिक कल्प
यिष्याम इति चेत् । निश्चयमेव कश्चित् संशयाविरोधिनं कल्पन्ताम् , वेदानां स्वार्थे निश्चितप्रमाजनकत्वात् । वस्तुतः o परेषामप्रामाण्य ज्ञानस्थलेऽस्माकं दोषविशेषस्य लाघवादुत्तेजकत्वम् । अत एव व्यवसायसामर्थ्यात् तद्वत्त्वस्य तत्प्रकारक
समसारमारANGARCA
S
eekel
Jain Educator
thatosa
For Private & Personel Use Only
www.jainelibrary.org