________________
सटीकः। स्तबकः। ॥८॥
समुच्चयः।
शास्त्रवार्ता- वादिति । ततः स्थितमेतदाकाशमसंकीर्णमप्यविद्यावृत्त्या संकीर्णमिव पश्यतीति ॥ २॥
दान्तिकयोजनामाह॥२८७॥
तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते ॥३॥
तथेदं- साक्षादपरोक्षम् , अमलं- सजातीय भेदरहितम् , निर्विकल्पं- विजातीयभेदविकल्पविकलम् , ब्रह्म, अविद्यया हेतुभूतया, कलुषत्वमिवापन्न- सजातीयभेदभागिव भेदरूपं विजातीयभेदभागिव प्रकाशते । अविद्यानिवृत्तौ च शुद्धब्रह्मपतिपत्तिः, तथाहि- कश्चित् खलु नित्याध्ययनविधिना सम्यगधीतवेदान्तो वेदान्तवाक्यानामापाततोऽर्थमवगच्छति ।
ननु कथमध्ययनविधेर्नित्यत्वम् , स्वाध्यायाध्ययनस्यार्थबोधफलकत्वात् । न ह्यध्ययनस्यावघातादिवदुत्तरक्रत्वङ्गत्वम् , श्रुत्याद्यसत्त्वात् । तदवश्यं फले कल्पनीये न विश्वजिद्वत् स्वर्गः फलम् , स्वर्गोपस्थितेस्तस्य प्रकृतकर्मफलतायाश्च कल्पनायां गौरवात् । न चार्थवादिकं पितृणां पयःकुल्याप्राप्त्यादि 'यद् वचोऽधीते' इत्यायुक्तं तत्फलम् , तस्य ब्रह्मयज्ञार्थवादत्वात् , दृष्टे संभवत्यदृष्टकल्पनानुपपत्तेश्वार्थावबोधस्यैव फलत्वात् । न च विधिवैयर्यम् , नियमविधित्वादुपदेष्ट्रादीनां साधनत्वेनाध्ययनस्य पक्षप्राप्तेः । तस्मात् काम्यत्वाद् न नित्यत्वमध्ययनस्येति चेत् ।।
अत्र वदन्ति-काम्यत्वेऽपि फलतो नित्यत्वमविरुद्धम् । अत एव 'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवान् भवतिER यज्ञेन देवेभ्यः, प्रजया पितृभ्यः, ब्रह्मचर्येण ऋषिभ्यः' इति ऋणश्रुतिः।
aa
।।२८७॥
Jain Education in HIFI
For Private & Personel Use Only
Paliwww.jainelibrary.org