SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ विचित्राभिः, मात्राभिः- केशमक्षिकादिरूपादिभिः, संकीर्णमिवाभिमन्यते- दोषात् पश्यति । ननु कथमेतत् 'इदं रजत' इत्यत्रेदमंशस्य प्रमाणतोऽपरोक्षत्वस्य, रजतांशस्य च रजताकाराविद्यावृत्या साक्ष्यपरोक्षत्वस्येव, अत्र केशादिसंकीर्णतांशेऽविद्यावृत्त्या साक्ष्यपरोक्षत्वेऽप्याकाशांशे घटवत्स्वावच्छिन्नब्रह्मचैतन्यममातृचैतन्याभेदाभिव्यञ्जकवृत्त्यभावेन प्रमाणतोऽपरोक्षत्वाजीवेऽनध्यस्तत्वेन च सुखादिवत् साक्ष्यपरोक्षत्वायोगात् ? इति चेत् । अत्र वदन्तियथा केवलसाक्षिगम्यस्याप्यज्ञानरजतादेः प्रामाणिकभावत्व-मिथ्यात्वादिधर्मपुरस्कारेण प्रमाणगम्यत्वम् , एवं प्रामाणिकस्यापि नमसः केवलसाक्षिवेद्यसंकीर्णताधर्मपुरस्कारेण केवलसाक्ष्यपरोक्षत्वम् , नभःसंकीर्णतावगायै काविद्यावृत्तिप्रतिफलितसाक्षिणा संकीर्णतायास्तदाश्रयतया नभसश्च विषयीकरणात् । । नन्वेवमविद्यावृत्तिविषयतया साक्षिविषयीकृतत्वाद् भ्रमानुमिताविवापरोक्षत्वं न स्यादिति चेत् । न, ईश्वरस्य मायावृत्तिविषयतयाऽतीता-नागतानामपरोक्षत्ववत् प्रकृतेऽपि तथात्वात् , अभ्रमप्रमानुमित्यादावविद्यान्तःकरणवृत्तिविषयतया बढेः साक्षिसंबन्धेऽपि लिङ्गादिप्रतिसंधानापेक्षत्वादपरोक्षत्वव्यवहाराभावात् , अज्ञानविषयतया घटवद्यादेः साक्षिसंबन्धे तूक्तहेतोरभावात् तद्भावात् । ततो विषयपक्षपातितया नभोनिष्ठसंकीर्णताभावाज्ञानस्य नभोऽवच्छिन्नचैतन्यनिष्ठापि संकीर्णता साक्षिणि खाकाराविद्यावृत्तिविषयतया स्वाध्यस्ता लिङ्गादिप्रतिसंधानाभावादपरोक्षैव व्यवाहियते । अधिष्ठानज्ञानं विना कथं नभसि संकीर्णताभ्रमः, न च केवलस्याधिष्ठानस्याविद्यावृत्तिरूपं ज्ञानं संभवति, प्रामाणिकत्वात् ? इति चेत् । न, तज्ज्ञानस्यानुमितिरूपत्वात् , भ्रमात् प्रागधिष्ठानस्य परोक्षत्वेऽपि भ्रमदशायामपरोक्षत्वात् , प्रागपरोक्ष एवाधिष्ठानपरोक्षभ्रम इति नियमाभा For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy