________________
शाखवातासमुच्चयः ॥२८६॥
एतानि च श्रोत्रादीनि 'पञ्चभूतकार्यान्तःकरणात्मकानि' इति केचित् । 'स्वतन्त्राणि' इत्यपरे । 'एवमुत्पन्नलिङ्ग-3 सटीकः। शरीरेभ्योऽपञ्चीकृतेभ्यः पञ्चीकृतभूतोत्पत्तिः' इति केचित् । पश्चीकरणं तु पश्चानामर्धदशकं विधाय पञ्चानामर्धपञ्चके इतरा- स्तबकः। र्धपञ्चकस्य प्रत्येकं चतुर्धा विभक्तस्य भागचतुष्टयस्य स्वस्वार्धपरित्यागेन योजनम् । अत्र चेश्वरस्यैव कर्तृत्वम् "नासमैकै
ii८॥ कानिवृत्तं करवाणि" इति श्रुतेः । पृथिव्यादिभागानां बहुत्वात्तु पृथिव्यादिव्यपदेशः।
सांप्रदायिकास्तु- न पञ्चीकृतानां कार्यान्तरत्वमिच्छन्ति, आकाशादिभ्यो वाय्वादिजन्मश्रवणवदपञ्चीकृतेभ्यः पञ्चीकृतजन्मश्रवणाभावात् , किन्तु तान्येव संयोगविशेषावस्थानि पञ्चीकृतान्युच्यन्ते । अत एव 'पटोऽपि न तन्तुभ्यः कार्यान्तरम् , किन्तु संयुक्तावस्थास्तन्तब एव' इति सिद्धान्तः । एतेभ्यः पश्चीकृतेभ्यः पञ्चभ्योऽपि ब्रह्माण्डभूधरादिचतुर्दशभुवनचतुर्विधस्थूलशरीरोत्पत्तिः । कथं विजातीयेभ्य एककार्योत्पत्तिः ? इत्याक्षिपतां तन्तुभ्यः पटकार्योत्पत्ति स्वीकृत्य तन्तु-केशपट्ट-मूत्रादिभ्यः प्रतीयमानाऽऽसनादिविचित्रकार्याभावमङ्गीकुर्वता कोशपानमेवैकशरणम् । चतुर्विधानि-जरायुजा-उण्डज खेदजोद्भिजानि । तदेवं निरूपितो हिरण्यगर्भादिरुद्भिजान्तो जीवस्य संसारोऽविद्यामूलः ॥ १॥
निरवयवस्यापि ब्रह्मणोऽविद्यया विचित्रतयाऽभिव्यक्तौ दृष्टान्तमाहयथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः। संकीर्णमिव मात्राभिर्भिन्नाभिरभिमन्यते॥२॥.ol
॥२८६॥ यथा विशुद्धं- वस्तुतोऽसंकीर्णम्, आकाशं, तिमिरोपप्लुतः- तिमिरदुष्टलोचनः, जनः- परिच्छेत्ता, भिन्नाभिः
For Private
Personal use only