SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern भोगश्रवणात् । एतदुपासकानां चोक्तविधसायुज्यं गतानां विराडादिसृष्टिव्यापारवर्ज तादृशमेव भोगादि व्यष्टिर्नाम परिच्छिन्नम् । तच्च बहुविधं विराजादि पिपीलिकापर्यन्तम् । तत्र विराजोऽस्मदादिवत् परिच्छिन्नस्यैव सतः प्रभूतपुण्यभोक्तृविशेषस्य. सकलस्थूलाभिमानिनः सत्यलोकाधिपतेश्चतुर्मुख भोगशरीरावच्छेदेन हिरण्यगर्भाच्छतगुणापकृष्टानन्दविशेषान् भुञ्जतः प्रजापतिवैश्वानर इत्यादयो व्यपदेशा भवन्ति । सकलस्थूलाभिमानित्वाच्च स्थूलसमष्टिरिति व्यपदिश्यते, हिरण्यगर्भस्यैव स्थूलसंवन्धाद् विरादसंज्ञा, तैजसस्यैव विश्वसंज्ञा, जीवान्तरकल्पने गौरवात् इति न युक्तमुपासनाविधिशेषेभ्यः, देवताविग्रहन्यायेन तत्सिद्धेः । एवमग्न्यादयोऽपि श्रुत्यादिसिद्धा अवसेयाः । , • एतच्च समष्टि व्यष्टिलिङ्गशरीरमपञ्चीकृतेभ्यो भूतेभ्य उत्पद्यते । तथाहि मायाशबलाच्चिदात्मन आकाशः, तस्माद् वायुः, वायोरशिः, अग्नेरापः, अद्भयः पृथिवी । एतानि सूक्ष्माणि व्यापकानि च सूक्ष्मत्वं विरलावयवत्वम् । एतान्येव ' तन्मात्राः ' इति व्यपदिश्यन्ते । एतेभ्यश्च व्यस्तेभ्यः क्रमेण श्रोत्रादिपञ्चकं वागादिपञ्चकं च, समस्तेभ्योऽन्तःकरणं प्राणश्चोत्पद्यते । अत एव श्रोत्रं न परेषामित्र कर्णशष्कुल्यवच्छिन्नं नभः, किन्तु तत्कार्य व्यष्टिसमष्टिरूपम् तेन नावश्यमन्तरेवोत्पन्नः श्रोत्रेण शब्दो गृह्यत इति नियमः, चक्षुर्वद् वहिर्गत्वा तेन बहिष्ठस्यापि शब्दस्य ग्रहणसंभवात् । ततचैक एव शब्दो यथाप्रतीति बहुभिः पुरुष इति युक्तं समाश्रयितुम् । ततश्च न प्रतिपुरुषं शब्दान्तरग्रहणकल्पना, नापि शब्दैकत्वप्रतीतेः सजातीयनिमित्तकभ्रमत्वकल्पना । १ ख. ग. घ. च. 'क्ष्मत्ववि' । For Private & Personal Use Only seaso jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy