SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ cle उनाडासरहा तथाप्रसङ्गात् । तच्चानुमितित्ववत् साक्षिगम्यमिति । एवमिदमंशावच्छेदेनोत्पन रजतमिदमंशावच्छेदेनैवापरोक्षम् , तत्तच्छरीरप्रदेशावच्छेदेन विद्यमानं सुखमिव तत्तदवच्छेदेन, इत्यतोऽन्तरवच्छेदेन तद्भानं वृत्तिमाक्षिपतीति । न चंदवृत्तिविशेषणतयाऽन्तस्तदवभासः, तस्यास्तदाकारत्वाभावात् : ईश्वरे मायावृत्तिस्तु वर्तमानस्य स्वाध्यस्तस्य जीवे सुखादिवदपरोक्षत्वेऽप्यतिाऽनागतभानार्थ प्रतिकल्पं सर्वाकारैका कल्प्यते, श्रुत्युक्तजगत्कर्तृत्वनिर्वाहाय च, अन्यथा कार्यानुकूलज्ञानादिमत्त्वरूपतदनुपपत्तेः, स्वरूपज्ञाने भेदाभावेनाधाराधयभावासंभवात्' इत्याहुः । तदेवं केवलसाक्षिवेद्यत्वे तुल्येऽपि रजतादौ वृत्तिरपेक्षिता, नाज्ञानादौ देहपर्यन्ते । ननु कथं देहस्य केवलसाक्षिवेधत्वम्, घटादिवञ्चक्षुर्ग्राह्यत्वेन प्रमाणवेद्यत्वात् । न च तत्र स्वप्नवच्चक्षुग्राह्यत्वम् , घटदावप्यनाश्वासात् । न च प्रमाणवेद्य एव देहः, अज्ञानविषयत्वेन कदाचिद् 'अहं मनुष्यो नवा' इति संदेहापत्तेः । किञ्च, अस्य ब्रह्मण्यध्यस्तत्वे घटादिवद् न केवलसाक्षिवेद्यत्वम् , जीवाध्यस्तत्वे च सुखादिवदन्यापरोक्षत्वभङ्ग इति चेत् । अत्राहु:- एक एवायं जीवो देहत्वेन ब्रह्मण्यध्यस्तः, न जीवे, 'अहं देहः' इत्यप्रतीतेः । तादात्म्याभिनिविष्टमनुष्यत्वेन जीवेऽध्यस्तो न ब्रह्मणि, 'अहं मनुष्यः' इति प्रतीतेः । तेनैव च रूपेण केवलसाक्षिवेद्यत्वम् , प्रमाणत्यनपेक्षत्वात् , देहत्वेन तु प्रमाणवेद्यत्वम् । एवमन्तःकरणादिरपि तत्वादिना ब्रह्मण्यध्यस्तः, अहन्त्वादिना जीव इति सिद्धमज्ञानोपहितचैतन्यरूपसाक्षिवेद्यत्वं देहस्य । ननु नाज्ञानं साक्षित्व उपाधिः, सुषुप्तेऽज्ञानसुखसाक्षिस्फूर्तेः पुरुषान्तरस्य 'सुखमहस्वाप्सम्' इति स्मरणप्रसङ्गात् । १ ख, ग, घ. च. 'झान' । Jan Education Inte For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy