________________
शास्त्रवातोंसमुच्चयः । ॥ २८४ ॥
Jain Education Intern
केवलाज्ञानास्फुरणाच्च । उक्तरीत्या तु नायं दोषः, वृत्तेरसदातनत्वात्, अत एवेश्वरस्यापि सर्वज्ञता सर्वाकारमायावृत्यैव । 'इयं च वृत्तिरन्तःकरणपरिणाम एव, अत एव स्वमस्य मनोवृत्तित्वम् ' इति केचित् । अन्ये तु 'सुषुप्तावन्तः करणाभावादज्ञानसुखाद्याकाराविद्यावृत्तेरावश्यकत्वे तथैव साक्षिवेद्यत्वोपपत्तौ न तथा' इत्याहुः |
अपरे पुनः- 'वृत्तौ तादृशसामर्थ्ये मानाभावाद् वृत्तिभानप्रयोजकाध्यासिक संबन्धस्यैवाज्ञानादिभानमयोजकत्वे तत्क ल्पनानवकाशाद् नाज्ञानाद्याकारावृत्तिर्भानार्था । अज्ञानविशेषणतया सदा घटादिसर्वविषयभानं त्विष्टमेव, मनुष्यत्वाद्यभिमानवत् । अत एव स्वसत्तायामव्यभिचारिप्रकाशत्वमहंकारादीनामुक्तं ग्रन्थकारैः । रजतवृत्तिस्त्वावश्यकी । तथाहि घटस्या परोक्षत्वं न सुखादिवदन्तरवच्छेदेन, किन्तु वहिरवच्छेदेन । न हि बहिर्निःसृता वृत्तिर्घटं शरीरावच्छेदेन स्वाध्यस्तं संपादयति, बहिष्ठत्वात् तस्य किन्तु घटावच्छिन्नब्रह्मचैतन्यप्रमातृचैतन्याभेदमभिव्यनक्ति । घटावच्छिन्नब्रह्मचैतन्यं च घटावच्छेदेनैव घटमपरोक्षीकरोति, नान्यावच्छेदेन, अन्यावच्छिन्नस्यान्यविषयीकरणे यत्किञ्चिदेकावच्छिन्नस्य सर्वज्ञत्वप्रसङ्गात् । तदेतदुभयचैतन्याभेदाभिव्यक्तिर्घटावच्छेदेन न शरीरावच्छेदेन । अत एव विषयावच्छिन्नस्यैव फलत्वप्रवादः । ततः शरीरावच्छेदेन घटस्फुरणं वृत्तिविषयतयैव । द्वेधा हि तत् एकं ज्ञाततयाऽज्ञाततया वा साक्षिविषयतया, अपरं च फलव्याप्यतया । आयं शरीरावच्छेदेन, द्वितीयं च घटावच्छेदेनेति ।
कथं तर्हि 'घटं साक्षात् करोमि' इति शरीरावच्छेदेन प्रत्ययः, वहिरवच्छेदेनैव घटादेरपरोक्षत्वात् १ इति चेत् । साक्षात्कारत्वस्य वृत्तिगतधर्मत्वात् तद् विषयापरोक्षत्वनिमित्तकम्, न तु वृत्तेः स्वाध्यस्तत्वकृतापरोक्षत्वकृतम्, वाक्यादावपि
For Private & Personal Use Only
Peacepo000000pcppsc86860
सटीकः ।
स्तबकः । ॥ ८ ॥
॥२८४॥
jainelibrary.org