SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ Jain Education Interi भेदरूपापरोक्षत्वायैव । तदेवं घटादेरपरोक्षता, वयादेस्तु प्रमातृचैतन्यनिष्ठाज्ञानमात्रनिवृत्तावप्युभयचैतन्याभेदाभिव्यक्तयभावात्, वृत्तेश्चान्तरेवोत्पादात् परोक्षता । रजतादेश्व शुक्त्या ज्ञानसमुत्पन्नस्यानिर्वचनीयस्येदंवृत्या इदमंशस्य घटादिन्याये नापरोक्षत्वात् प्रमातृचैतन्याभिभेदमंश चैतन्येऽध्यस्तत्वात् सुखादिवदपरोक्षत्वम् । इदमंशतादात्म्येनोत्पन्नत्वाच 'इदं रजतम् ' इति प्रत्ययः । 'सत्' इति च तत्र शुक्तिसत्चैव भासते । न चान्यथाख्यातिः, तत्संसर्गस्यानिर्वचनीयत्वात् । न चैवं भ्रमानुमित्यादौ वरिव देशान्तरीयरजतस्य संसर्गोत्पच्यैव निर्वाहः, वह्नेरिव रजतस्य परोक्षत्वापत्तेः । शुक्ति- सत्तयोस्त्वपरोक्षत्वं प्रमाणस्यैव, इदमंशवत् । अन्ये तु तत्रापि वह्नयंशे शुक्तिसत्तांशे चान्यथाख्यातिर्मा भूदिति वह्नयुत्पत्ति, रजते सत्तान्तरोत्पत्तिं चाचक्षते । तदुक्तम्- " अथवा त्रिविधं सम्” इति । नन्वेवं सुखादिवदपरोक्षत्वे रजताकारा वृचिर्न स्यात्, तत्र हीदमंशावच्छिन्नब्रह्मचैतन्याभिने प्रमातृचैतन्ये 'रजतम्' इति तत्प्रमातृचैतन्यमिदमाकारवृत्तिप्रतिफलिततयेदमंशे प्रमाणमपि तत्रैव विषयेऽभिव्यततया फलमपि रजतांशे शुद्धसाक्षिरूपं, न तु प्रमाणं वा, फलं वा, प्रमाता वा, तदाकारप्रमाणनृत्यभावादेव, इति रजतवृत्तेः कोपयोगः ? इति चेत् । अत्र केचित् साक्षिचैतन्यं स्वतः स्फुरदप्यसङ्गतया तत्तद्विषयावभासनायासमर्थ ज्ञानसंशब्दितवृत्तिप्रतिविम्बितमेव विषयावभासकं भवति इत्यज्ञान- सुखादीनामपि तदाकाराविद्यावृत्तिप्रतिफलितचिद्भास्यत्वमेव केवलसाक्षिवेद्यत्वं तु प्रमाणयनपेक्षत्वात् इत्यावश्यकी रजतवृत्तिः । अन्यथा सदा विषयविशिष्टा ज्ञानावभासप्रसङ्गः, साक्षिणि साक्षादध्यस्तत्वात्, For Private & Personal Use Only ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy